SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पदार्थसाधर्म्यम् गुणादीनां पञ्चानामपि निर्गुणत्व निष्क्रियत्वे | इदानीं द्रव्यपरित्यागेन सावयं दर्शयति [ गुणादीनाम् ] गुण आदियेषां ते तथोक्तास्तेषाम् । न ज्ञायते कियतामतः पञ्चानामपि साधर्म्यं निर्गुणत्वञ्च निष्क्रियत्वञ्चेति * निर्गुणत्व निष्क्रियत्वे । निर्गता गुणा येभ्यस्ते निर्गुणास्तेषां भावो निर्गुणत्वं गुणाभावः । अथ अभावस्याभावतया धर्मत्वाभाव इति चेत्, न । विशेषणत्वेन तदुपपत्तेः । तथाहि, गुणाभावेन सता गुणादिषु अन्वयव्यतिरेकाभ्यां निर्गुण इति व्यवहारदर्शनाद ज्ञायते गुणाभावस्य विशेषणत्वेन धर्मत्वमिति । स च पञ्चसु समानत्वात् साधर्म्यमिति । Acharya Shri Kailassagarsuri Gyanmandir षडेव पदार्था इत्यवधारणञ्च भावविषयमित्यभावस्य व्यतिरेकेऽपि न दोषः । आश्रितस्य धर्मत्वेऽपि समवेत एव धर्म इति नियमानभ्युपगमाच्चेति । निष्क्रियत्वन्तु निर्गता चलनलक्षणक्रिया येभ्यस्ते निष्क्रियास्तेषां भावो निष्क्रियत्वम् क्रियाभावः साधर्म्यम् । तेन सता निष्क्रिया इति व्यवहारदर्शनात् । पदार्थत्रयसाधर्म्यम् अन्ये तु गुणाभावोपलक्षितः समवायो निर्गुणत्वम्, क्रियाभावोपलक्षितश्च निष्क्रियत्वमिति मन्यन्ते । तच्चासत् । समवाये धर्मि [णि] समवायान्तरस्यासम्भवान्निगुणव्यवहारो न स्यात् । अभेदे हि धर्मधर्मव्यवहारादर्शनात् । द्रव्यादीनां त्रयाणामपि सत्तासम्बन्धः, सामान्यविशेषवत्त्वं स्वसमयार्थशब्दाभिधेयत्वं धर्माधर्मकर्तृत्वञ्च । द्रव्यादित्रयस्य साधर्म्यमाह [*द्रव्यादीनाम् ] | द्रव्यमादिर्येषां तानि द्रव्यादीनि, तेषाम् । न ज्ञायते कियतामित्यतः त्रयाणामपि सत्तासम्बन्धः * साधर्म्यम् । सत्तायाः सम्बन्धः सत्तोपलक्षितः समवाय इति । For Private And Personal Use Only सदसत् प्रत्ययजनन्यां सत्तायां शङ्कासमाधाने ननु द्रव्यादिषु सत्तायाः सद्भावे किं प्रमाणम् ? सद्द्रव्यं सद्गुणः सत्कर्मेति ५ ३३ 5 10 15 20
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy