________________
Shri Mahavir Jain Aradhana Kendra
३२
5
10
15
20
25
www.kobatirth.org
व्योमवती
भिधाने चेति ।
तथा अभिधेयस्य च भावोऽभिधेयत्वम्, अभिधेय इति ज्ञानमेव । तेन सता अभिमर्थं इति शाब्दव्यवहारदर्शनात् । तच्चाभिधानजनितं ज्ञानमर्थं इति ।
Acharya Shri Kailassagarsuri Gyanmandir
तथा ज्ञेयस्य भावो ज्ञेयत्वं ज्ञेयमिति ज्ञानमेव । तेन सता ज्ञेयमिति शाब्दव्यवहारदर्शनात् । तच्च ज्ञानेन विशेषणेन जनितं ज्ञानमर्थ इति ।
तथा आश्रितानां भाव आश्रितत्वम् आश्रयाश्रयिभावलक्षणा वृत्तिः । सा च आकाशादिषु न तेषामाश्रयाभावात् । न च आश्रयाश्रयिभावस्य समवायरूपतायां समवायेऽसम्भवात् न षट्पदार्थव्यापित्वम् । अथ पञ्चानां समवायलक्षणा वृत्तिराश्रितत्वम्, समवायस्तु स्वात्मवृत्तिरिति चेत्, एवं तहिं पञ्चानां समवायित्वमिति पुनरुक्तं स्यात् । तथाहि समवायित्वं समवायलक्षणा वृत्तिः सा च पञ्चानामाश्रितत्वपदेनोक्तेति आश्रितत्वपदेन आश्रितत्वोपलक्षितस्येहाभिधानाददोषः ।
अथ व्यतिरिक्तस्य निमित्तस्यासम्भवात् समवाये भावप्रत्ययः कथम्. आश्रितस्य समवायस्य भाव आश्रितत्वमिति ? नैतदेवम् । समवायस्य वृत्तिरूपतया वृत्तिमदाश्रितत्वोपलब्धेर्वृत्त्यन्तरकल्पनायामनवस्था स्यादित्युपचरिता वृत्तिरिष्यते । सा च अन्यनिमित्तस्यासम्भवादाश्रितत्वज्ञानहेतुः समवायें वृत्तिविशेष एव । आत्मवृत्तित्वे तु समवायस्य स्वयं वृत्तिरूपत्वाद् वृत्त्यन्तरं नापेक्षितमित्युपगमेनाश्रितत्वमेव ।
अव्यतिरेके हि आश्रयाश्रयिव्यवहारासम्भवादतः समानलक्षणवृत्तिप्रतिषेध एवेति वक्ष्यामः समवायपरीक्षायामित्यलम् ।
पचपदार्थसाधर्म्यम्
द्रव्यादीनां पञ्चानामपि साधर्म्य समवायित्वमनेकत्वञ्च ।
इदानीं समवायपरित्यागेन पञ्चानां साधर्म्यमाह * द्रव्यादीनाम् इत्यादिना । द्रव्यमादिर्येषां ते द्रव्यादयस्तेषाम् । न ज्ञायते कियतामित्याह पञ्चानामपि साधर्म्यं समवायित्वमनेकत्वञ्च * इति । समवायो विद्यते येषां ते समवायिनस्तेषां भावः समवायित्वं समवायलक्षणा वृत्तिरिति । अनेकत्वञ्च समानलक्षणयोगित्वे सति व्यक्तिभेदोsनेकत्वसंख्या वोपचरिता । समवाये तु समानलक्षणयोगिनि न व्यक्तिभेदो नायकत्वसंख्येत ।
For Private And Personal Use Only
*