________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्म्यप्रकरणम् पदार्थेषत्तद्यमानत्वं व्यक्त्यपेक्षयाऽसिद्धम् । तथा ह्येकमस्तीति ज्ञानं षट्सु पदार्थेषुत्पद्यते । एवमभिधेयज्ञानञ्चेति । अथ अस्ति द्रव्यम्, अस्ति गुण इत्येवंजातीयकं ज्ञानं षट्सूत्पद्यत इति नास्त्यसिद्धता । तहि द्रव्यगुणाविज्ञानं ज्ञानजातीयं षट्सूत्पद्यते । न च षट्पदार्थातिरिक्तभावरूपनिमित्तनिबन्धनमिति व्यभिचारः। यच्च षट्पदार्थातिरिक्तं भावरूपनिमित्तं तस्यानुवृत्तव्यावृत्ततायां प्राक्तनमेव दूषणमूह्यम् । सत्तासम्बन्धेन च पदार्थेषु 5 भावव्यतिरेकाभ्यामस्तीति ज्ञान नुत्पद्यमानं दृष्टमिति विरोधः। अस्तित्वधर्मादेवास्तित्वज्ञानमिति चेत् तहि सत्तायाः सद्भावे किं प्रमागमिति वाच्यम्, प्रत्ययवैलक्षण्याभावादित्यतो न व्यतिरेके प्रमाणमस्तीत्यप्रसिद्धविशेषणो हेतुरिति सत्यम्। यदि च अभूत्वा भावित्वमानं कार्यत्वमिष्टं स्यात्तदप्यस्तित्वादिषु सन्दिग्धम् । तथा ह्माश्रये सत्युपलम्भादस्तित्वादेर्न ज्ञायते किमाश्रया वा ते सन्तोऽभिव्यज्यन्ते सामान्यवत्, 10 उतोत्पद्यन्ते रूपादिवदिति । न च निमित्तकारणं विशेषतो निर्देष्टुं शक्यते। अथ गुणाश्रयास्तदाधारास्तेषां निमित्तमिति चेत्, एवं तर्हि गुणादीनां कार्याधारतया समवायिकारणत्वादिति निमित्तादेवोत्पत्तिविरुध्यते। तथाहि, नियमेनाधार्याधारयोर्यः सम्बन्धः स समवाय एव । अन्यत्वे वा समवायलक्षणं व्यभिचारि स्यात् । असम्बन्धे चोक्तमेव दूषणमित्यतिरिक्तैः * धमविना धर्मिणामुदेशः [कृत:] * इति सिद्धम् ।
अन्ये तु धर्मैः सह मिण उद्देशः कृतः । केनेति ? * विना पक्षिणा उलुकेन । सामान्यशब्दश्च विशेषे वर्त्तते प्रकरणादिति ब्रुवते। षट्पदार्थसाधर्म्यम्
पण्णामपि पदार्थानामस्तित्वाभिधेयत्वज्ञेयत्वानि। आश्रितत्वश्वान्यत्र नित्यद्रव्येभ्यः।
20 अथ अव्यतिरेकेऽस्तित्वादीनां पदार्थान्तर्भावात् तद्विशेषेऽपि साधर्म्यरूपतया परिज्ञानार्थमाह * षण्णामपि पदार्थानाम् * । अस्तित्वञ्चाभिधेयत्वञ्च ज्ञेयत्वञ्चेति समाहारद्वन्द्वः । न परमस्तित्वादयः षण्णां धर्मास्तथाश्रितत्वञ्चेति । तस्य' नित्येष्वसम्भवाद् अव्यापकत्वेन पृथगभिधानमित्याह आश्रितत्वञ्चान्यत्र नित्यद्रव्येभ्यः * इति ।
अथाव्यतिरेकेऽस्तित्वादीनां क्वान्तर्भाव इति चेत्, शब्दव्यवहारस्य विवक्षि- 25 तत्वादस्ते: शब्दरूपस्य भावोऽस्तित्वं ज्ञानमेव, येन सताऽस्तीत्यभिधानं प्रवर्त्तत इति । ज्ञानरूपस्य च अस्तेर्भावोऽस्तित्वमिति विवक्षायां सत्तास्वरूपं सत्त्वं वा लभ्यते । तत्सद्भावे द्रव्यादिष्वस्तीतिज्ञानदर्शनात् । अस्ति चायम् अस्तिशब्दो ज्ञाने, तद्विषयेऽ
15
For Private And Personal Use Only