SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवतो अथ द्रव्यस्यैव समवायिकारणत्वेन गुणादिषूत्पत्तिकारणाभावाद् आश्रयविनाशेऽप्यवस्थानमिति चेत् । एवं तर्हि द्रव्येष्वनित्यं गुणादिषु च नित्यमिति स्यात् । इष्यत एवेति चेत् हि विनाशवन्निमित्तकारणादेवोत्पद्यन्तेऽस्तित्वादय इति व्याहतमेतत् । तथास्तित्वादेः प्रतिपदार्थनियतत्वेनानन्त्यात् तेष्वेवास्तीत्याद्यभिन्नव्यवहारदर्शनाद् एकमस्तित्वेष्वस्तित्वमभिधेयत्वेष्वभिधेयत्वं तत्राप्यन्येऽस्तित्वादय इति प्राक्तनमेव दूषणमभ्यूह्यम्। ___ न चास्तित्वानियतमिसम्बन्धाभावे व्यपदेशनियमोऽस्यायं धर्म इति घटते। अथास्तित्वसम्बन्धो यदि समवायस्तहि धर्माणां समवायितया द्रव्यादिष्वन्तर्भावः, द्रव्यादीनां पञ्चानां समवायित्ववचनात् । यद्यन्याः सम्बन्धो धर्मात्मकस्तस्यायुतसिद्ध10 सम्बन्वत्वे कथं समवायाद् व्यतिरेकः ? व्यतिरेके वा स एव धर्मो धमिव्यापकोऽस्त्वलं समवायेन । तस्य च सम्बन्धान्तराभ्युपगमेऽनवस्था स्यादिति स्वात्मवृत्तित्वमभ्युपेयम् । स्वात्मवृत्तित्वं समवाय एव । यच्चानुमानं निमित्तकारणादेवोत्पद्यन्ते धर्माः, द्रव्यगुणकर्मव्यतिरेकिकार्यत्वाद् विनाशवद् इत्यत्र कार्यत्वस्य स्वकारणसत्तासम्बन्धरूपतायामसिद्धो हेतुः । विनाशस्य च स्वकारणसत्तासम्बन्धाभावात् साधनविकलश्च दृष्टान्तः । द्रव्यादिव्यतिरेके च प्रमाणाभावात् सन्दिग्धविशेषणो हेतुः। अथ षट्पदार्थेष्वस्तीति ज्ञानं व्यतिरेके प्रमाणम् । तथाहि, द्रव्यादिष्वस्तीत्यादिज्ञानानि षट्पदार्थव्यतिरिक्तविधीयमाननिमित्तनिबन्धनानि, षट्पदार्थेबूत्पद्यमानत्वात्, यानि तु षट्पदार्थव्यतिरिक्तविधीयमाननिमित्तनिबन्धनानि न भवन्ति न तानि षट्सूत्पद्यन्ते यथा द्रव्यादिज्ञानानि, तथा षटसु नोत्पद्यन्तेऽस्तीत्यादिज्ञानानि, तस्मात् षट्पदार्थव्यतिरिक्तविधीयमाननिमित्तनिबन्धनानीति व्यतिरेकी। तथाहि. षट्पदार्थेष्वस्तीति ज्ञानं तथा अभिवेय इत्युत्पद्यमानं दृष्टमिति पक्षधर्मत्वम् । न च षट्पदार्थव्यतिरिक्तभावरूपनिमित्तनिबन्धनमुभयाभिमतं विज्ञानमस्तीति सपक्षाभावः । द्रव्यादिज्ञानन्तु षट्पदार्थव्यतिरिक्तभावरूपनिमित्तनिबन्धनं न भवतीति विपक्षस्त स्माच्च षट्पदार्थेषत्पद्यमानत्वं हि द्रव्यादिव्यावृत्तम् । तथा हि द्रव्यज्ञानं द्रव्य एव न 25 तु गुणादिषु, एवं गुणज्ञानं गुण एव न कर्मादिष्वपीति न षट्सूत्पत्तिरिति विपक्षव्यावृत्ति रेव । विपक्षे प्रत्यक्षागमाभ्यां विरुध्यत इति न कालात्ययापदिष्टः। विशेषानुपलब्धेरयोगाद् न प्रकरणसम इति । तस्माद् व्यतिरेकसिद्धौ न सन्दिग्धविशेषणो हेतुरिति, नैतदेवम्, षट्सु 20 For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy