________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदार्थोद्देशप्रकरणम्
न वाच्यम् । समवायसद्भावेऽपि पूर्वलक्षणापेक्षया पञ्चैवेति स्यात् । एवमुत्तरोत्तरपदार्थसद्भावेऽपि पूर्वपूर्वलक्षणापेक्षयावधारणाभ्युपगमे सत्येक एव पदार्थ: स्यात् । तथाहि, द्रव्यलक्षणयोगे एक एव पदार्थो नान्यस्तस्य हि द्रव्यलक्षणयोगित्वे द्रव्य एवान्तर्भावात् ।
अथ गुणादिषु विभिन्नलक्षणसम्बन्धिषु तत्त्वज्ञानाभावप्रसङ्गान्नैवमवधारणम् ।। एवं तहि धर्मेषु षड्लक्षणालक्षितेषु तत्त्वज्ञानाभावप्रसङ्गात् षडेवेत्यवधारणमन्याय्यम् । प्रतिज्ञातञ्च पदार्थेषु साधर्म्यवैधर्म्यप्रतिज्ञानम् [?] । धर्मस्वरूपविचारः
तथा धर्मरूपतायाः सकलभेदाव्यापितया न धर्मेषु तत्त्वज्ञानम् । तथाहि, धर्मरूपतायां किमन्या धर्मरूपताऽस्ति ? उत नास्तीति । सद्भावे तस्यामन्याभिधेयतेत्यन- 10 वस्थायां धर्मरूपतायाश्चानेकत्वादेकस्य निमित्तस्योपग्राहकस्याभावान्न धर्मेषु तत्त्वज्ञानं स्यात् ।
न च पृथिवीत्वं विनानुगताकारं धर्मेषु सामान्यमस्तीति, धर्मो धर्म इत्यनुगतज्ञानस्यासंवेदनात्। यदि चानुगताकाराशेषधर्मव्यापिका स्याद् धर्मरूपता, तस्यास्तहि सामान्यरूपत्वात् तद्योगितया धर्माणां द्रव्यादिष्वेवान्तर्भावः, द्रव्यादित्रयस्य सामान्यविशेष- 15 वत्त्वाभिधानात् । न च धर्मत्वस्य सामान्यलक्षणयोगित्वे सामान्याद् व्यतिरेकः सिध्यति, द्रव्यत्वादेरपि व्यतिरेकप्रसङ्गात् । तथाधर्मरूपतायाश्च धर्मत्यायोगेन धर्मेऽप्यन्तर्भावासम्भवादिति पदार्थान्तरत्वं स्यात् । यथा चास्तित्वादिषु धर्मरूपत्वं तथा धर्मत्वेऽप्यन्येऽस्तित्वादयः, तेषु चाप्यन्यद् धर्मत्वमित्यनवस्थां नातिवर्त्तते ।
अथ यदेव धर्मत्वमस्तित्वादेराधेयं तदेवान्येषामाधारस्तदाधेयश्चेति न युक्त- 20 मेतत् । एकस्मिन् काले यद् यस्याधारस्तत्तस्यैवाधयमित्यनुपलम्भात् । तथास्तित्वादेरप्येकस्य निमित्तस्यानेकत्रानुवृत्तौ सामान्यान्तर्भावस्तल्लक्षणयोगित्वात् ।
यदि चैकं नित्यमस्तित्वं सर्वत्र पदार्थेष्वस्तीति प्रत्ययजनकं स्यात् किं सत्तया? स्वरूपसत्त्वेन वा ? अथानेकं प्रतिपदार्थमस्तित्वाभिधेयत्वादीति चेत्, न । धर्मिविनाशेऽपि सत्तावदवस्थानम्। तथाहि, एकाश्रयविनाशेऽप्येकतया सत्तायाः पदार्थान्तरेऽपि सत् सदिति 25 प्रत्ययजनकत्वेनावस्थानम् । धर्माणान्तु प्रतिपदार्थनियतत्वाद् आश्रयान्तरेऽस्तीतिप्रत्ययजनकोऽन्य एव धर्म इति नाश्रयविनाशेऽप्यवस्थाने प्रमाणमस्तीति ।
For Private And Personal Use Only