________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
व्योमवती
( वै. सू. १।१।१५), अयोगान्ययोगव्यवच्छेदे द्रव्याश्रितत्वं गुणानाम्, तथा क्षणिकत्वे सति नियमेन मूर्त्तद्रव्यवृत्तित्वं कर्मणाम्, नित्यत्वैकत्वे सति समवायेनानेकवर्तमानत्वं सामान्यस्य, अयोगान्ययोगव्यवच्छेदेन नित्येष्वेव द्रव्येषु ] वर्त्तमानत्वं विशेषाणाम् , नियमेनायुतसिद्धसम्बन्धत्वं समवायस्येत्येवं धर्माधिकारिणः षडेवेत्यवधारणेऽप्यदोषः ।
अथ व्यतिरिक्तानामपीयत्ताऽसम्भवादसंख्यातत्वेन तत्त्वज्ञानाविषयत्वमिति चेत्, न । पृथिव्यामिवानन्त्येऽप्येकस्य निमित्तस्योपग्रहात् तत्त्वज्ञानविषयत्वमिति । निमित्तन्तु तत्र पृथिव्यां पृथिवीत्वम् , धर्मेषु धर्मरूपतेति ।।
अथ धर्मेषु नित्यत्व भुतानित्यत्वमिति चेन्नित्यत्वेऽपि धर्मिविनाशे सत्तावदवस्थानाभ्युपगमाददोषः । अनित्यत्वेऽपि द्रव्यस्यैव समवायिकारणत्वाइ गुणादिषु 10 नोत्पत्त्यभावः, विनाशवन्निमित्तकारणादेवोत्पत्त्यभ्युपगमात् । तथाहि, द्रव्यगुणकर्मात्मकं
कार्य समवाय्यादिकारणेभ्यो निष्पद्यमानं दृष्टं विपरीतन्तु निमित्तादेव । तथा च धर्माः, निमित्तादेवोत्पद्यन्ते, द्रव्यगुणकर्मव्यतिरेकिकार्यत्वात्, यद् यद् द्रव्यगुणकर्मव्यतिरेकिकार्य तत्तन्निमित्तकारणादेवोत्पद्यमानं दृष्टम्, यथा विनाशः, तथा च धर्मा द्रव्यगुणकर्म
व्यतिरेकिकार्याः, तस्मान्निमितकारणादेवोत्पद्यन्ते। उत्पत्तिधर्माणाञ्चानित्यत्वं दृष्टमित्य15 स्तित्वादयोऽप्यनित्या इति । अस्तित्वञ्चास्तीति प्रत्ययनिमित्तम्, येन सोऽस्तीति प्रत्ययो भवतीति । अभिधेयत्वं वाभिधेयप्रत्ययकारणमित्यादि सर्वत्र योज्यम् ।
अव्यतिरेके तु व्यतिरिक्तैत्रमविना धर्मिणानुद्देशः कृत इति व्याख्यानम् । व्यतिरेके बाधकप्रमाणोपपत्तेर्व्यतिरिक्तेति विशेषणं सामर्थ्याल्लभ्यत एव। तथा ह्यवधारणानुपपत्तिर्व्यतिरेकपक्षे ।
___ अथोक्तं विशिष्टधर्माधिकरणत्वेनावधारणं विवक्षितमिति, तन्न । उक्तलक्षणानां षडेव पदार्था इत्यवधारणे साधारणधर्माधिकरणानां पदार्थान्तराणामपरिसंख्यातत्वात् तत्त्वज्ञानासम्भव एव। तत्त्वज्ञानार्थञ्चावधारणम् । न च पदार्थान्तराणामज्ञेयत्वम्, सर्वस्य भावप्रपञ्चस्य ज्ञेयतयोपक्षेपात् । तेषु च सामान्यविशेषरूपतया तत्त्वज्ञान कार्यम् ।
सामान्यं भावरूपता, विशेषस्तु द्रव्यादिवल्लक्षणयोगः । तदतिरिक्तेषु च पदार्थेषु 25 सामान्यतो ज्ञानं न विशेषत इति ।
अथ द्रव्यादिलक्षणवद् धर्मरूपताविशेषस्य सद्भावविशेषेणापि तत्त्वज्ञानविषयत्वमिति चेत् , तर्हि पदार्थान्तरसद्भावेऽपि नियतलक्षणापेक्षयावधारणाभ्युपगमे पडेवेत्यपि
For Private And Personal Use Only