________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदार्थोद्देशप्रकरणम्
अथायुत सिद्धानामेवाधार्याधारभूतानामेव यः सम्बन्धः स समवाय इति लक्षणपरिसमाप्ताविहप्रत्ययहेतुरिति व्यर्थम्, न । परीक्षार्थत्वात् । तथाहि, तन्तुषु पट इत्यादि इप्रत्ययः, सम्बन्धकार्यः, अवाध्यमानेहप्रत्ययत्वात्, यो योवाध्यमानेहप्रत्ययः स स सम्बन्ध कार्य:, यथेह कुण्डे दधीति प्रत्यय:, तथा चायमवाध्यमानेहप्रत्ययः, तस्मात् सम्बन्धकार्य इति । न चात्र समवायपूर्वकत्वं साध्यते दृष्टान्तस्य साध्यविकलताप्रसङ्गात् । नापि संयोगपूर्वकत्वम् । किं तर्हि ? सम्बन्धमात्र कार्यत्वम् । स च संयोगादिविलक्षणत्वात् समवाय एवेति वक्ष्यामस्तपरीक्षायामित्यलमतिविस्तरेण । उद्देशप्रकर गोपसंहारः
एवं धर्मैर्विना धर्मिणामुद्देशः कृत इति ।
एवं द्रव्यादिषु पदार्थे तेषु सामान्यविशेषसमवायानां लक्षणपरीक्षाश्रवणा इन्तेवासिनः प्राक्तनं प्रकरणं किनुद्देशपरं लक्षणपरं परीक्षापरं वेति संशये सति तन्निरासार्थ उपसंहारवाक्यम् एवम् इत्यादि प्रधानतया । प्राधान्यं तस्य सर्वत्रोद्देश - विधानात् । उद्देशस्तु संज्ञामात्रेण पदार्थाभिधानमिति । लक्षणपरीक्षयोश्च सामान्यादिष्वेव भावादनुषङ्गतोऽभिधानमिति । यद् वा द्रव्यादिपदार्थ परिज्ञानान्निःश्रेयसमिति मत्वा प्रवृत्तस्तदुद्देशपरिज्ञानमात्रान्निःश्रेयसाला भेऽतिप्रतारकतां मन्यमानः श्रवणादन्तेवासी मा व्यावर्ततामिति तदाश्वासनार्थं वाक्यम् एवं धर्मैर्विना वर्मिणाम् केवलानानुद्देशः कृतो लक्षणं नापि परीक्षा । तत्तद्द्वारेण साधर्म्यवैधर्म्यपरिज्ञानं श्रीमुपजातमभ्यासवशाद् आत्मन्यशेषविशेषालिङ्गिते विज्ञानमपरोक्षं कुर्वन् निःश्रेयस नुपजनयतीति । पदार्थ संख्यावधारणस्य युक्तत्वविचारः
षडेव पदार्था इत्यवधारणाभ्युपगमे धर्माणां व्यतिरेकासम्भवात् कथमस्तित्वादिभिर्विना धर्मिणामुद्देशः कृत इति ? न । अवधारणस्य धर्मविषयत्वाभ्युपगमात् । तन्न | अस्तित्वादयोऽपि स्वाधिकरणवर्मापेक्षया धर्मिण एवेति, तदपेक्षयापि व्याहतमवधारणम् । तथा ह्यस्तित्वमभिधीयमानत्वाद् अभिधेयत्वाधिकरणम्, एवमभिधेयत्वमस्तित्वाधिकरणमित्यादि योज्यम् ।
अथासाधारणधर्माधिकरणत्वेनावधारणमर्थवत् । तदसत् । अस्तित्वादेरप्यसाधारणधर्माधिकरणत्वात् । तथा ह्यस्तित्वमभिधेयत्वाद् भिद्यतेऽभिधेयत्वश्वास्तित्वाद् भिद्यत इति । न चासाधारणधर्मसम्पर्क विना व्यावृत्तिर्घटत इत्यसाधारणधर्माधिकरणत्वेनावधारणासम्भव इति चेत्, नैतदेवम् । क्रियावद गुणवत् समवायिकारणमिति द्रव्यलक्षणम्
For Private And Personal Use Only
२७
5
10
15
20
25