SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निःश्रेयसपदार्थविचारः यच्चेदं रागादिवियुक्तज्ञानं विशिष्टभावनात इति, तन्नास्ति । क्षणिकत्वे कार्यकारणभावप्रतिषेवस्य वक्ष्यमाणत्वात् । उपेत्यवादेन तुच्यते, न रागादिमतो विज्ञानात् तद्रहितस्योत्पत्तिर्युक्तेति । तथाहि [?] यथा हि 'वोवाद बोवरूपता' ज्ञानान्तरे, तद्वद् रागादिरपि स्यात् तत्तादात्म्यात् । विपर्यये वा तदभावप्रसङ्गादिति । न च विलक्षणादपि कारणाद् विलक्षणकार्यस्योत्पत्तिदर्शनाद बोबाद वोवरूपतेति प्रमाणमस्ति । अत एवास्य ज्ञानस्य ज्ञानान्तरहेतुत्वेन पूर्वकालभावित्वं समानजातीयत्वमेकसन्तानत्वं वा न हेतुर्व्यभिचारात् । तथाहि, पूर्वकालभावित्वं तत्समानक्षणैः, समानजातीयत्वञ्च सन्तानान्तरज्ञानैर्व्यभिचारीति । तेषां हि पूर्वकालभावित्वेन समानजातीयत्वेऽपि न विवक्षितज्ञानहेतुत्वमिति । एकसन्तानत्वश्च अन्त्यताज्ञानेन व्यभिचारीति । अथ नेष्यत एवान्त्यं ज्ञानं सर्वदा आरम्भात् । तथाहि मरणशरीरज्ञानमपि ज्ञानान्तरहेतुर्जाग्रदवस्थाज्ञानच सुपुप्त्यवस्थाज्ञानस्यापीति । नन्वेवं मरणशरीरज्ञानस्यान्तराभवशरीरज्ञानहेतुत्वे गर्भशरीरज्ञानहेतुत्वे वा सन्तानान्तरे विज्ञानजनकत्वप्रसङ्गो नियमहेतोरभावात् । अथ इष्यत एव उपाध्यायज्ञानं शिष्यज्ञानस्यान्यस्य कस्मान्न भवतीति ? अथ कर्मवासना नियामिति चेत्, न । तस्यापि ज्ञानव्यतिरेकेणासम्भवात् । तथाहि, तत्तादात्म्ये सति विज्ञानं बोवरूपतया विशिष्टं वोधाच्च बोधरूपतेत्यविशेषेण विज्ञानं विदध्यादित्यलम् । यच्चेदं सुषुप्त्यवस्थाज्ञानस्य जाग्रदवस्थाज्ञाने कारणत्वमिति, असदेतत् 1 सुषुप्त्यवस्थायां ज्ञानसद्भावे जाग्रदवस्थातो न विशेषः स्याद् उभयत्रापि स्वसंवेद्यज्ञानस्य सद्भावाविशेषात् । यद्वा निद्रयानभिभूतत्वं विशेष इति चेत्, असदेतत् । तद्धर्मतया तस्यापि तादात्म्येनाभिभावकत्वासम्भवात् । व्यतिरेके रूपादिपदार्थानामेव सत्त्वात् तु तत्स्वरूपं निरूप्यम् । अभिभवश्च यदि विनाश:, न विज्ञानस्य सत्त्वं विनाशस्य वा निर्हेतुकत्वम् । अथ तिरोभावः, न विज्ञानस्य सत्त्वेन तत्सत्तैव संवेदनमित्यभ्युपगमे तस्यानुपपत्तेः । अथ सुपुप्त्यवस्थायां विज्ञानासत्त्वेनान्त्यज्ञानसद्भावादेकसन्तानत्वं व्यभिचारीति । यच्चेदं विशिष्टभावनावशाद रागादिविनाश इति असदेतत् । निर्हेतुकत्वाद विनाशस्याभ्यासानुपपत्ते | अभ्यासो ह्यवस्थितस्यार्थस्यातिशयावायकत्वादुपपद्यते, न क्षणिकज्ञानमात्र इति । अत एव योगिनि सकलकल्पनाविकलं विज्ञानमुत्पद्यते । न च २ For Private And Personal Use Only 5 10 15 20 25
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy