________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निःश्रेयपदार्थविचारः
दूषणम्, नानुकूलत्वात् । तथा च प्रतिकूलस्यादोषस्य प्रतिषेधस्य तद्रागेऽपि समानमित्यदूषणमेतदित्यन्यदूह्यम् ।
अथ सर्वगुणोच्छेदाइ वरं वैषयिक सुख दुःखसाधन परिहारेण भोक्तव्यमिति मन्यसे, तन्न, तस्य दुःखानुषङ्गेण दुःखरूपतया हेयत्वात् । येषाञ्चैतदुपादेयं न तान् प्रति इदमर्थवच्छास्त्रम् । सन्ति च वैषयिकसुद्वेषिणः पुरुषास्तान् प्रतीदं शास्त्रम् । ते च यद्युपदेशमपेक्षन्ते नोपायान्तरादेवार्थं प्रतिपचानुठाने प्रवर्तन्त इति । मोक्षास्तित्वे च प्रमाणोपपत्तेः । शेषं वचनमात्रमित्युपेक्ष्यते ।
अन्ये तु अन्यथाभूतादेव साधनाद् अन्यथाभूतं मोक्षं मन्यन्ते । यथोक्तम्, गुणपुमान्तरविवेकदर्शनं निःश्रेयससाधनमिति । तथाहि पुरुषार्थेन हेतुना प्रधानं प्रवर्तते । पुरुषार्थश्च देवा शब्दाद्युपलब्धिगु णपुरुषान्तरविवेकदर्शनच । सम्पन्ने हि पुरुषार्थे चरितार्थत्वान्न प्रधानं शरीरादिभावेन परिणमत इति द्वष्णुः स्वरूपेणावस्थानं भवतीति | विज्ञातं वा द्रष्टृतया कुट्टिनीस्त्रीवद भोगसम्पादनाय पुरुषं नोपसर्पतीति ।
तदेतत् सर्वमसत् । प्रधानासत्त्वस्य वक्ष्यमाणत्वात् । स्थिते हि प्रधानसद्भावे पुरुषस्य तद्विवेकदर्शनमुपपद्यते । उपेत्य वा ब्रूमः । यदि प्रवानं पुरुषस्थं निमित्तमनपेक्ष्य प्रवर्तते मुक्तात्मन्यपि शरीरादिसम्पादनाय प्रवर्तेत अविशेषात् । अथादर्शनापेक्षमिति चेत्, यस्य हि गुणपुरुषान्तरविवेकदर्शनानुपपत्तिस्तं प्रति प्रधानं प्रवर्तते, न चासौ मुक्तात्मनीति, तन्न | मुक्तात्मन्यपि विवेकदर्शनस्य विनाशेन प्रवृत्तिप्रसङ्गात् । न चानुत्पत्तिविनाशयेोरदर्शनत्वेन विशेषं पश्यामः । अथादृष्टापेक्षं प्रवर्तत इति चेत्, तदसत् । तस्यापि प्रधाने शक्तिरूपतया व्यवस्थितस्य उभयत्राविशेषात् । तथा शरीरादिवैचित्र्याभावा तस्यैकरूपत्वात् । न च परिणामवैचित्र्याच्छरीरादिवैचित्र्यम् । तद्वैचित्र्ये कारणाभावात् । कथन्य साम्येनावस्थितं तत्प्रधानं वैषम्यमवाप्नुयात्, पुरुषार्थस्य प्रवृत्तिहेतोरभावात् ? सद्भावे वा पुरुषार्थस्य तदर्था प्रवृत्तिर्न भवेद् विद्यमानत्वादेव | न व प्रवृत्तिहेतुं विना कर्म [णि ] प्रवर्तमानस्योपरमो युक्त हेत्वभावात् ।
यच्चेदं द्रष्टुः स्वरूपेणावस्थानमित्युक्तं तदिष्यत एव विशेषगुणरहितस्यावस्थानाभ्युपगमात् ।
For Private And Personal Use Only
७
5
10
15
20
25