________________
Shri Mahavir Jain Aradhana Kendra
६
5
10
15
20
25
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
प्रतिबन्धकमिति नोपलब्धम् । प्रतिबन्धकत्वेन 'तदपहन्तु हिंसा फल न स्यात् । तथाहि, प्रतिबन्धविघातक उपकारक एवेति दृष्टम् । तेन हि नित्यसुखसंवेदन प्रतिबन्धकस्य शरीरादेरपहन्तुहिंसा फलस्याभाव इत्यलम् ।
अथानित्यं तत्संवेदनमिति चेत्, न । उत्पत्तिकारणाभावात् ।
अथ योगजधर्मापेक्षः पुरुषान्तःकरणसंयोगोऽसमवायिकारणमिति चेत्, न । योगजधर्मस्याप्यनित्यतया विनाशेऽपेक्षाकारणाभावात् ।
अथाद्यसंयोगजधर्मादुपजातं विज्ञानमपेक्ष्य उत्तरं विज्ञानं तस्माच्चोत्तरमिति सन्तानः, तन्न, प्रमाणाभावात् । तथा च शरीरसम्बन्धानपेक्षं विज्ञानमेव आत्मान्तःकरणसंयोगस्यापेक्षाकारणमिति न दृष्टम् । न च दृष्ट्या विपरीतं शक्यते ह्यनुज्ञातुम् । आकस्मिकन्तु कार्यं न भवत्येव । अत एव नित्यसुखनानस्याभावात् 'सुखेनाहमस्वाप्सम् ' इति ज्ञानं नेदं स्मरणम् । किं तर्हि ? दुःखकारणानुस्मरणाभावेन तदभावानुमितिज्ञानमेतत् 'सुखेनाहमस्वाप्सम्' इति । विपर्यये वा नित्यसुखवद् 'दुःखेनाहमस्वाप्सम्' इति स्मरणाद नित्यदुःखमपि स्यात् । अथ सुषुप्त्यवस्थान्तराले दुःखकारणसंवेदनाद् दुःखेनाहमस्वाप्तमिति ज्ञानमेतत् । एवं तर्हि तदभावात् सुखेनाहमिति भविष्यतीति ।
अथागमस्तर्हि कथम् 'आनन्दं ब्रह्मणो रूपम्' इत्यादि । मुख्ये हि बाधकोपपत्तेगण इति । तथाहि दुःखाभावेऽयमानन्दशब्दः प्रयुक्तो दृष्टः, सुखशब्दों दुःखाभावे । यथा भाराक्रान्तस्य बाहकस्य तदपाय इति ।
यच्चानुमानम् आत्मा सुखस्वभाव इति । तत्र यदि सुखस्वभावत्वं सुखत्वजातिसम्बन्धित्वम्, तन्नात्मनि सम्भाव्यते गुण एवोपलम्भात् । न होका अहङ्कारादिवदपरा जातिद्रव्यगुणयोः साधारण्युपलब्धेति । अथ सुखाधिकरणत्वम्, तन्नास्ति, नित्यानित्यत्वविकल्पानुपपत्तेः । तथा सुखत्वाधिकरणत्वे सुखाधिकरणतायां वा तज्ज्ञानस्य नित्यानित्यत्वविकल्पः । साधन वा अत्यन्तप्रियबुद्धिविषयमनन्यपरतयोपादीयमानत्वव अनैकान्तादसाधनं दुःखाभावेऽपि भावान् । अनन्यपरतयोपादीयमानत्वश्चासिद्धं सुखार्थमुपादानात् । तथा अत्यन्त प्रियबुद्धिविषयत्वमप्यसिद्धं दुःखितायामप्रियबुद्धेरपि भावादित्यनुमानद्वयमप्रमाणम् ।
यदि च मोक्षावस्थायां नित्यं सुखमस्तीत्यभिलापेण प्रवर्तेत न मुक्तः स्याद रागस्य बन्धनरूपत्वात् । अय बुद्धयादिकमुपच्छेदयामीति द्वेषादपि प्रवर्तमानस्य तदेव
For Private And Personal Use Only