________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निःश्रेयसपदार्थविचारः
कार्यत्वादनित्यत्वमिति वाच्यम्, विशेषगुणोच्छेदस्य प्रध्वंसरूपत्वात् तदुपलक्षितात्मन एव नित्यत्वादिति । कार्यवस्तुनानित्यत्वमिति । न च बुद्ध्यादिनाशे गुणिनस्तथा भावः, तादात्म्यप्रतिषेधस्य वक्ष्यमाणत्वात् ।
अथ मोक्षावस्थायां चैतन्यस्याप्युच्छेदान्न कृतबुद्धयः प्रवर्तन्त इति आनन्दरूप मोक्ष इष्यतामिति मनुषे । यथोक्तम्,
आनन्द ब्रह्मणो रूपं तच्च मोक्षेऽभिपद्यते । इषि ।
तथा 'सुखेनाहमस्वारसम्' इति सुषुप्त्यवस्थोत्तरकालं स्मरणान्यथानुपपत्त्याऽनुभवो ज्ञायते । तत्र च अभिवानानमानयोर्व्यापारोऽनुपलब्धी बाह्मेन्द्रियाणाञ्च इत्यन्तःकरणस्य व्यापारी ज्ञायत इति मानसं प्रत्यक्षम् । अनुमानश्च, आत्मा, सुखस्वभावः, अत्यन्तं प्रियवुद्धित्रिपत्वाद् अनन्यपरतयोपादीयमानत्वाच्च, यद् यदेवंविधं तत्तत्सुखस्वभावं यथा वैषयिक सुखम, तथा चात्मैवंविधः तस्मात् सुखस्वभाव इति ।
तदेतदसत् । बावकोपपत्तेः । तथाहि तस्य अनित्यतायामुत्पत्तिकारणं वाच्यम् । न च मोक्षावस्थायामात्मान्तःकरणसम्बन्धः शरीरसम्बन्वापेक्षः सम्भवति, शरीरादेरभावात् । न चासमवायिकारणं बिना वस्तुत्पत्तिर्दृष्टा ।
अथ नित्यं तत् सुमिति चेत्, अज्ञात संवेदनन्तु यदि नित्यं मुक्तावस्थायामिव संसारावस्थायामपि भावादविशेषप्रसङ्गः । स्मरणानुपपत्तिच अनुभवस्यैवावस्थानात् ! संस्कारानुपपत्तिश्च अनुभवस्य निरतिशयत्वात् ।
अथ संरावस्थायां वाज्यविषयव्यासङ्गा विद्यमानस्याप्यनुभवस्यासंवेदनम्, तदभावाच्च मोक्षावस्थायां वेदनमित्यस्ति विशेषः ।
तदसत् । नित्यसुखे भवस्यापि नितालाई व्यासङ्गानुपपत्तिः । तथाहि, आत्मनो रूपादिविज्ञानोत्पत्ती विषयान्तरे नानानुत्पत्तिर्व्यासङ्गः । एवमिन्द्रियस्याप्येकस्मिन् विषये ज्ञानजनकत्वेन प्रवृत्तस्य विषयान्तरे ज्ञानाजनकत्वं व्यासङ्गः । न चैवमात्मनो रूपादिविषयकज्ञानोत्पत्तौ नित्यसुखे ज्ञानानुपपत्तिः, तज्ज्ञानस्यापि नित्यत्वात् । न च शरीरादिना प्रतिवध्यत्वादसंवेदनमिति वाच्यं नित्यत्वादेव । तथाहि, प्रतिबन्धकं कार्यव्याघातकृदुच्यते । न च नित्यसुखज्ञानस्यानुत्पत्तिः सम्भवति । तथा उपभोगार्थत्वाच्च शरीरादेर्भोगप्रतिबन्धकत्वानुपपत्तिः । यद् यदर्थं तत् तस्यैव
For Private And Personal Use Only
5
10
15
20
25