SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 व्योमवती दग्नि..... इति व्याख्येयं न तु साक्षात् । न चैतद् वाच्यम्, तत्त्वज्ञानिनां कर्मविनाशस्तत्त्वज्ञानात्, इतरेषान्तु उपभोगादिति । ज्ञानेन कर्मविनाशे प्रसिद्धोदाहरणाभावात् । ___ अन्ये तु मिथ्याज्ञानजनितसंस्कारस्य सहकारिणोऽभावाद् विद्यमानान्यपि कर्माणि न जन्मान्तरे शरीरारम्भकाणीति मन्यन्ते। अत्र च कार्यवस्तुनो नित्यत्वं 5 स्यादिति दूषणम् । __अथ अनागतयोर्धर्माधर्मयोरुत्पत्तिप्रतिषेधे तत्त्वज्ञानिनो नित्यनैमित्तिकानुष्ठानं तर्हि कथम् ? प्रत्यवायपरिहारार्थम् । तथाहि, नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानञ्च विमलीकुर्वन्नभ्यासेन तु पाचयेत् ।। अभ्यासात्पक्वविज्ञानः कैवल्यं लभते नरः ॥ इति । केवलन्तु काम्ये निषिद्धे च प्रवृत्तिप्रतिषेध इति । यद् वा तत्त्वज्ञानिनो नित्यनैमित्तिकानुष्ठाने न निवर्तते धर्मोत्पत्तिस्तथैवाभिसन्धानात्, तत्फलसन्न्यासो वा। तथाहि सर्वकर्मणां परमगुरावर्पगमिति श्रूयते । न बा प्रवृतिः प्रतिसन्धानाय हीनक्लेशस्य (न्या. सू. ४।१६५) इत्यलम् । अथास्तु तत्त्वज्ञानं निःश्रेयस कारणम् । अवधारणन्तु निषिध्यते । सन्न्यासादिक्रियायाश्च मोक्षहेतुत्वेन श्रवणात् । तथाहि, सन्न्यस्यन्तं द्विजं दृष्ट्वा स्थानाच्चलति भास्करः । ममेष मण्डलं भित्वा प्रयाता लोकमक्षयम् ।। ( सन्च्यासोपनिषत् २।६) द्वावेतो पुरुपौ लोके सूर्यमण्डलभेदिनौ । परिवाड् योगयुक्तश्च रणे चाभिमुखे हतः ।। ( परा० स्मृ० ३।३७ ) इत्याधुक्तम् । सत्यम् । सन्न्यासादिक्रियायाः सूर्यमण्डल भेदित्वेन ऊर्ध्वगमनहेतुत्वमिष्यत एव । यदि नाम लोकमित्यभिवानादक्षयत्वमधस्तनलोकापेक्षाया क्रियान्तरफलापेक्षया वा 25 द्रष्टव्यम् । तथाहि सन्न्यासादिलक्षणक्रिया भौतिकान्यक्रियापेक्षया प्रधानभूतेति । न च नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिनिःश्रेयसं सूर्यमण्डलभेदित्वेन भवतीति, तस्य विशेषगुणवियुक्तात्मरूपतया सर्वत्र भावात् । अत एव न तत्त्वज्ञान 15 20 For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy