SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निःश्रेयसपदार्थविचारः RU __ तथा घपलब्धं सम्यग्ज्ञानस्य मिथ्याज्ञाननिवृत्ती सामर्थ्य शुक्तिकादाविति । सम्यग्ज्ञानस्य ज्ञानान्तरविरोधित्वाद् उत्तरकालभाविना मिथ्याज्ञानेनापि सम्यग्ज्ञानस्य विरोध: सम्भवत्येव । यदि सा मनःसन्तानोच्छित्तिविवक्षितेति । यथा हि सम्यग्ज्ञानामियाज्ञानस्य सन्तानोच्छेदः, नैवं मिथ्याज्ञानात् सम्यग्ज्ञानस्येति । निवृत्ते च मिथ्याज्ञाने तन्मूलत्वाद् रागादयो नश्यन्ति कारणाभावेन कार्यस्या- नुत्पादादिति । रामायभावे च तत्काप्रिवृत्तिव्यविर्तते । तदभावे च धर्माधर्मयोरनुत्पत्तिः। आरब्धकार्ययोश्योपभोगान् प्रक्षय इति । 5 अथ सञ्चितयोविचारः । कथं तत्त्वज्ञानादेवेति ? यथोक्तम्, यथैधांसि समिद्धा निर्भ:मसात कुरुते क्षणाम् । ज्ञानाग्निः सर्वकर्माणि भस्मसात कुरुते तथा ।। इति ।। (गीता ४/३७) . ननूपभोगादेव प्रक्षय इत्यामानमोक्तम् । यथोक्तम्', नामुक्त लोयते कर्म कल्पकोटिशतैरपि । अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् !! (देवीभा०९२९६९-७०, ४०७३) __तथा च विरुद्धार्थत्वादुभयोः कथं प्रामाण्यामिति ? भोगाच्च प्रक्षयेऽप्यनुमानमप्यस्ति । पूर्वकर्माणि, उपभोगादेव क्षीयन्ते, कर्मवान्, यद्यत् कर्म तत्तद् उपभोगादेव क्षीयते यथा आरब्धशरीरं कर्म, तथा चामूनि कर्माणि, तस्माद् उपभोगादेव क्षीयन्त इति । ऊपभोगेन च प्रक्षये कर्मान्तरस्यावश्या भावात् संसारानुच्छेदः । तदसत् । समाधिवलादुत्सन्नतत्त्वज्ञानो हि कर्मणाञ्च साध्यमर्थ विदित्वा युगपच्छरीराणि निर्मायोपभोग "क्त इति । न च कर्मान्तरोत्पत्तिमिथ्याज्ञानजनितानुसन्धानाख्यस्य सहकारिणोऽभावात् । अथ मिथ्याज्ञानाभावेऽभिलाषस्याभावाइ भोगानुपपत्ति: ? तन्न । उपभोगं विना हि कर्म..... या अनुपपत्तः, जानन्नपि तदथितया प्रवर्तत एव । वैद्योपदेशादातरवदोषधावरणे। ज्ञानमध्येवम् । अशेषशरीरोत्पत्तिद्वारेणोपभोगात् कर्मणां विनाशे व्यापारा 20 For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy