SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ऊ ] प्रशस्तपादभाष्यस्य प्रचलिता भ्रान्तिर्निराकारि सम्पादकमहोदयै भूमिकायाम् । जगदीशकृता सूक्तिनाम्न्येकाऽन्यापि व्याख्या विराजते । व्योमशिवाचार्यव्याख्यायां प्रशस्तपादभाष्यमङ्गलाचरणव्याख्यानप्रसङ्गे 'अन्ये तु', 'यच्चेदम्' 'अथ इति चेत् इत्यादिशब्दः प्रदर्शितानां मतान्तराणामवलोकनेन व्योमशिवाचार्यात् प्रागपि प्रशस्तपादभाष्यस्यान्यान्यपि भूरीणि व्याख्यानान्यभूवन्निति सम्प्रतिपद्यते । इत्थं वैशेषिकदर्शनपरम्परायामपि न्यायदर्शनव्याख्यापरम्परावद् विद्यमानः कोऽपि द्राघीयानविरत आसीत् क्रमः, सलूनः परतोऽध्ययनाध्यापनवैकल्यादिति निश्चप्रचं शक्यते वक्तुम् । अन्नपूर्णाष्टम्यां २०३९ वै० ( २३-३-८३ खी० ) एवं तावदिमां पदार्थधर्म संग्रहटीकां म० म० शिवकुमारशास्त्रिग्रन्थमालायाः षष्ठप्रसूनतया विकचितां वैशेषिकदर्शनस्य तलस्पर्शज्ञानवतां पण्डितप्रकाण्डानां पाणिपल्लवसम्पुटे समर्पयता मयाऽनुभूयतेऽमन्दानन्दसन्दोहः । तस्या अस्याः प्रकाशनेन विपश्चिदपश्चिमा जिज्ञासवश्च नूनं प्रीणिता उपकृताश्च भविष्यन्तीति विश्वसिति } Acharya Shri Kailassagarsuri Gyanmandir भागीरथप्रसाद त्रिपाठी 'वागीशः शास्त्री' निदेशक: For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy