SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रास्ताविकम् काणादानि वैशेषिकसूत्राणि समालम्ब्य प्रशस्तपादेन विरचितः पदार्थधर्मसंग्रहः प्रशस्तपादभाष्यापरपर्याय: प्राकाशि वाराणसेय-संस्कृत-विश्वविद्यालयेन त्रिषष्ट्युत्तरैकोनविंशतिशततमे ख्रीस्ताब्दे श्रीधरप्रणीतया न्यायकन्दली ख्यया तद्धिन्द्यनुवादेन च समलकृतः। तस्यानतिचिरादेव मुद्रणातीतत्वाज्जिज्ञासूनां पुनः प्रकाशनार्थमसकृदा ग्रहवशात् तदीयं द्वितीयं संस्करणमपि १६७८ तमे खीस्ताब्दे सुलभीकृतम् । यद्यपि व्याख्येयं प्रथिता ग्रन्थ प्रन्थिभेदनपटीयसा, तथापि शास्त्रीयगभीरतादृशा महाविदुषा श्रीमदुदयनाचार्येण संदृब्धा किरणावली किमप्यनितरसाधारणं गौरवं बिभर्ति पण्डितमण्डल्यामिति तस्याः पदपदार्थप्रस्फोरणाय परवर्तिभिः सुधीभिव्याख्यानानि भूयांसि विरचय्य पाविता स्वलेखनी। तस्या महिमानमिमम् अभ्युपगम्य सम्पूर्णानन्दसंस्कृतविश्वविद्यालयेन प्रथमतोऽशीत्युत्तरकोनविंशतिशततमे ( १९८० ) खीस्ताब्दे स्वनामधन्यानां पण्डितप्रवराणां डॉ० श्रीगौरीनाथशास्त्रिभट्टाचार्यमहोदयानां हिन्दीव्याख्यासहिता सा गङ्गानाथझाग्रन्थमालाया अष्टमप्रसूनतया प्रास्फुटयमानीता। इतः पूर्वं किरणावल्याः किरणावलीप्रकाशः, किरणावलीप्रकाशदीधितिः, किरणावलीभास्करश्चेति टीकोपटीकाः सरस्वतीभवनग्रन्थमालायाः ( ४५; ३८; १ ) पुष्पतया प्रकाशिता अभूवन्निति विदन्त्येव तज्ज्ञाः। इत्थं खलु कणाददर्शनव्याख्योपव्याख्याशृङ्खलायां प्रशस्तपादश्रीधरोदयनाचार्यकृतीनां रसास्वादो व्यधायि वैशेषिकदर्शनरसिकप्रवरैः। प्रशस्तपादकृतस्य पदार्थधर्मसंग्रहस्य प्रथमो व्याख्याता खलु व्योमशिवाचार्यो विद्योतते विज्ञातेषु व्याख्याकारेष्विति तत्प्रणीतपदार्थधर्मसंग्रहटीकाप्रकाशनमन्तरा शृङ्खलेयमपूर्णा खण्डिता च स्थास्यतीति विभाव्य प्रस्तूयमाना व्याख्येयं सम्पादिता प्राच्यपाश्चात्त्योभयविद्याविभूषितैमान्यैः श्रीगौरीनाथशास्त्रिभट्टाचार्यमहोदयः। द्रव्यपदार्थप्रकरणं यावदुपलब्धं हस्तलेखं परिष्कारपूर्वकं महता परिश्रमेण सम्पाद्य व्यपनुन्ना चिरन्तनी सुसम्पादनन्यूनता। व्योमशिवाचार्यस्य देशकालावधिकृत्य For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy