SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ई] कस्यचिदाचार्यविशेषस्य बहूनां वा आचार्याणाम् 'एके-अन्ये अपरे' प्रभृतिपदोपात्तानामभिमतस्याशु बोधाय प्रायेणानुच्छेदा लघ्वाकारा एव समादृताः । येषामवलोकनेन विषयवस्तुबोधात् प्रागेव सौकर्येण कश्चित्तत्र विविधाचार्यकृताक्षेपसमाधानसूचक : संकेतार्थको बोधः समुत्पद्यत एव । तृतीयो यो हि दोष उद्धृतग्रन्थवचन संदर्भोल्लेखाभावरूपः, तस्य समाधाने कियत् काठिन्यमसौविध्यं वाऽनुभूयते इति विदन्त्येव गवेषणापरायणा विद्वांसः । मन्ये, तदेव काठिन्यमनुभवता पूर्वसंस्करणस्य संपादकेन तदुपेक्षितम् । अस्मिन् संस्करणे प्रायेण सर्वेषामेवोद्धरणानां संदर्भपूर्तये मया प्रयतितम् । एवं महता श्रमेण यत्नेन च सम्पादितं सभाष्यं व्योमवत्या द्रव्यनिरूपणान्तं प्रथमं खण्डं विदुषां विनोदाय तदीयकरकमलेषु समर्पयन्नितरामाह्लादमनुभवामि । अस्य महति सम्पादनकार्ये पण्डितप्रवरेण श्रीविभूतिभूषणभट्टाचार्येण यदपेक्षितमनल्प साहाय्यमाचरितं तत् सर्वदेवाविस्मरणीयम् इति ते बहून् साधुवादानर्हन्ति । अत्र भाषागताशुद्धिसंशोधने कुशलम् ईक्ष्यपत्रगताशुद्धिसंशोधनादिकार्येऽवहितं च डॉ० जानकीप्रसाद द्विवेदमनुसंधानाधिकारिणमाशिषा योजयामि । For Private And Personal Use Only श्रीगौरीनाथशास्त्री
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy