________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ इ ] महामहोपाध्यायपद्मनाभमिश्रकृतया सेतुव्याख्यया च समन्वितं वाराणसीस्थराजकीयसंस्कृतपुस्तकालयाध्यक्षेण म. म. पं० गोपीनाथकविराजेन, ल्यायोपाध्यायढुण्डिराजशास्त्रिणा च संस्कृतं महर्पिकल्पप्रशस्तदेवविरचितं प्रशस्तपादभाष्यं १६३० तमे यीशवीये वर्षे ( १९८७ तमे वैक्रमाब्दे ) चौखम्बासंस्कृतसीरिजवाराणसीत: प्रकाशितम् अभूत् । अस्य मुद्रणे सम्पादकेन आदर्शपुस्तकद्वयं व्यवहृतमासीत् । अस्मिन् प्रशस्तपादभाष्ये 'पाठभेदयाहुल्यवशान्मूलपाठनिरिणे बुद्धिव्यामोहः प्रवर्तते इत्यभिप्रायेण सम्पादकेन प्रकृतव्याख्याकाराभिमत माठेषु प्रसिद्ध एव पाठः प्रस्तुतः । व्योमवतीवृत्तों तु वाराणसीस्थराजकीयसरस्वतीभवनस्थमेकमेव पुस्तकमादर्शतया स्वीकृत्य तदीय एव पाठो विनियुक्तः । परमादर्शपुस्तकस्यैवाशुद्धिभूयस्त्वात् तत्रापि बहवो भ्रष्टा एव पाठा वर्तन्ते इति सम्पादकेनापि स्वीयप्रमादार्थ क्षमा याचमानेन भूमिकायामुद्घोषितम्
"व्योमवत्यादर्शस्तु प्रायः शुद्धोऽपि केनचिदादर्शनिकेन संशोधनकालेऽशुद्धि संप्रापित इति मया ग्रन्थारम्भे नालोचितमतस्तत्रास्मत्प्रमादाज्जाता अशुद्धी: संशोध्य पठद्भिविद्वद्वरैस्स' क्षन्तव्यः” इति ।
एवं तस्मिन् संस्करणे व्योमवत्यां अष्टपाठदोषः संनिहित एव, येनार्थावबोधे न केवलं विलम्ब एवापतति, किं च क्वचिदर्थानवबोध एव वर्तते। अपि च तत्र प्रायेणानुच्छेदाः पृष्ठद्वितयात्मकाः पृष्ठत्रितयात्मकाश्चापि दृश्यन्ते । एतादृशे बृहत्परिमाणे एकस्मिन्ननुच्छेदे बहवो मतभेदा बहूनामाचार्याणामाक्षेपाः समाधानानि च निरूपितानि सन्ति । एतेनापि विषयावबोधेऽवश्यमेव किञ्चिदसौकर्यमनुभूयते वैशेषिकदर्शनपारंगतैरपि विद्वभिः । एतद्दोषद्वयस्य समाधानं चिरकालात् प्रतीक्षितमासीत् । अतो भिन्नमप्येक यदवश्यकर्तव्यतया विधेयमासीद् व्योमवत्या मुद्धृतानां वैशेषिकसूत्र-प्रमाणवात्तिकमीमांसाश्लोकवात्तिकप्रभृतिग्रन्थानां बहूनां वचनानां च संदर्भाल्लेखः, सोऽपि सम्पादकेन सर्वथैव समुपेक्षितः । मुख्यत एतेषामेव त्रयाणां दोषाणां समाधानाय सभाष्यं व्योमवत्याः सम्पादनं मयाऽङ्गीकृतम्।
तत्र भ्रष्टपाठशोधने द्वे रीती समाश्रिते। केचन पाठा मूले एव संशोध्य स्थापिताः। यथा बकारस्थाने वकारः, मकारस्थाने भकारः, इकारस्थाने ईकारश्चेत्यादयः । केचिच्च पाठा अर्थसंगतिमनुसृत्य [ ] बृहत्कोष्ठे प्रदर्शिताः । तेष्वपि क्वचित् संभावनायां संदेहे वा सति ? प्रश्नचिह्न योजितम्।
For Private And Personal Use Only