SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ आ ] भारद्वाजवृत्तिः, कटन्दी, आत्रेयभाष्यम्, मल्लिनाथसूरिकृतो भाष्यनिकषः, कणादसूत्रनिबन्धः ( भट्टवादीन्द्रवात्तिकम् ), जयनारायणविवृतिः, चन्द्रकान्ततकलिङ्कारभाष्यम्, रघुदेवव्याख्यानम्, वैदिकवृत्तिश्चेति स्मर्यन्ते। सम्प्रति चन्द्रानन्दकृता मिथिलाविद्यापीठात् प्रकाशिता च वृत्तिवैशेषिकसूत्राणामुपलभ्यते ।। एतेषु व्योमशिवाचार्यो वात्स्यायनभाप्योक्तरीत्या वेदान्तसांख्यमतस्य तत्रापि च विशेषेण बौद्धमतस्यैव निरसनापदेशेन समस्तं प्रशस्तपादभाग्यं विवरीतुमुद्युक्तो बभूवेति मन्यते । क्वचित्तु व्याख्यान्तरवलक्षण्येन भाष्यं व्याख्यातवता व्योमवतीकारेण विलक्षणप्रतिभाशालिन् मायात्मन आविष्कृतम् । परीक्षामन्थे सर्वत्र लक्षणपदव्यावृत्तीतरभेदातुमानप्रणालीप्रदर्शनपूर्वकं तत्तत्पदार्थसद्भावे प्रमाणादिविवेकः कृत इत्येषा रीतिराश्रिता आचार्येण व्योमशिवेन । अयमाचार्यः शिवादित्यात्सप्तपदार्थीकारादभिन्न इति बहूनामभिमतम् । परं ग्रन्थद्वयस्य परिशीलनेनोभयत्र यत् पर्याप्त मतवैषम्यं दृश्यते, तस्मादुभयो?मशिवशिवादितामोरभिधानापरपर्यायत्वमङ्गीकर्तुं न शक्यते। सप्तपदार्थीग्रन्थे सामान्यअनुमिति-लिङ्गानि त्रिविधानि, व्योमवत्यां च तेषां द्वैविध्यमेवाभिमतम् । सप्तपदार्थीकारः प्रमाणं द्विविधमेव दर्शयति, व्योमवतीकारश्च तस्य त्रैविध्यमङ्गीकरोति । ग्वालियरराज्यस्थरणोदशिलालेखेनैकेन ज्ञायते यदेष व्योमवतीकारो न केवलं न्यायवैशेषिकादिष्वेव शास्त्रेषु, अपि च बौद्धजैनादिशास्त्रेष्वप्रतिहतगतिरासीत् सिद्धान्तेषु महेश एष नियतो न्यायेऽक्षपादो मुनिगम्भीरे च कणाशिनस्तु कण भुक् शास्त्रे श्रुतौ जैमिनिः । साङ्ख्येनल्पमतिः स्वयं च कपिलो लोकायते सद्गुरु बुद्धो बुद्धमते जिनोक्तिषु जिनः को वाऽथ नायं कृती ? ॥ तदनुसारमेष स्वभ्यस्ताखिलशास्त्रनिर्मलमतियॊशिव आचार्यहृदयेशस्य शिष्य आसीत् । स च हर्षवर्धनस्य समकालिकत्वाद् व्योमवती ६०५ त: ६४५ पर्यन्तं यीशवीयवर्षावधी कदाचित् प्रणिनायेति ग्रन्थोद्धरणविवेकेन वक्तुं शक्यते । अनया विद्वच्चूडामणिव्योमशिवाचार्यनिर्मितया भाष्यान्तावसानया व्योमवतीवृत्त्या, द्रव्यग्रन्थपर्यन्तया पण्डितप्रवरजगदीशतर्कालङ्कारविरचित या सूक्तिटीकया, For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy