________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूमिका काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् । इदं नाविदितं भारतीयदर्शनानुशीलनपराणां मनीषिणां यत्तत्त्वज्ञानवैराग्यश्वर्यसम्पन्नेन परमकारुणिकेन पुनिना कणादेन तापत्रयनिदानमनुसंदधता नानाश्रुतिस्मृतीतिहासपुराणेषु प्रोक्तमात्मतत्त्वसाक्षात्कारमेव तदुपायमाकलयतां तत्प्राप्तिहेतुमपि पन्थानं जिज्ञासमानानां च मुनीनामववानाच 'आत्मतत्त्वसाक्षात्कारप्राप्तेः परमः पन्थास्तत्त्वज्ञानमेव' इति मनसि निधाय निवृत्तिलक्षणधर्मस्य व्याख्याया: 'अथातो धर्म व्याख्यास्यामः'' इत्येतस्मात् प्रतिज्ञावचनात् पदार्थतत्त्वनिर्णयप्रधानं वैशेषिकदर्शनमारब्धम् । तत्र सूत्रसंदर्भस्यातिसंक्षिप्तत्वादवेद्यतयाऽस्मदादेस्तत्त्वज्ञानं न स्यादित्यभिप्रायधिया महर्षिकल्पेन प्रशस्तदेवाचार्येण प्रकरणग्रन्यरूपेण सुविदितं पदार्थधर्मसंग्रहापरपर्याय वैशेषिकभाष्यं प्रणीतम्। प्रशस्तपादात् पूर्ववतिभिः परवर्तिभिश्चापि दार्शनिकैर्बहवो व्याख्यानग्रन्था विरचिताः। एवं निःश्रेयसकारणभूतस्य तत्त्वज्ञानस्य सम्पादनाय प्रवृत्तस्य वैशेषिकदर्शनस्य सत्स्वपि बहुषु व्याख्यानेषु प्रशस्तपादभाष्यस्य विशेषेण प्रामाण्यमङ्गीक्रियते, प्रशस्तपादस्य ऋषित्वेन तदुक्तेरदोषप्रयुक्तत्वात् ।
अस्य च भाष्यस्य बह्वीषु व्याख्यासु भारतस्य दक्षिणभागे उपलब्धा श्रीव्योमशिवाचार्यविरचिता व्योमवतीवृत्तिः, श्रीधराचार्यकृता न्यायकन्दली, उदयनाचार्यकृता किरणावली, श्रीशंकर मिश्रप्रणीता भाष्यतात्पर्यावबोधिका वात्तिकत्वेनाभिमता कणादरहस्यापरपर्याया उपस्कारटीका चेति चतस्रो व्याख्याः प्रामुख्येण परिगण्यन्ते । श्रीवत्साचार्योपनिबद्धा लीलावती, किरणावलीमवलम्व्य स्थलविशेषेषु रहस्यार्थप्रकाशनमुखा मूलभाष्याक्षरव्याख्यानमात्रपरा श्रीजगदीशतर्कालङ्कारकृता भाष्यसूक्तिः ( द्रव्यप्रकरणान्तं यावदुपलब्धा ), उदयनाचार्यकृतां किरणावलीमेवादीकृत्य सर्वतन्त्रस्वतन्त्रप्रद्योतनभट्टाचार्यापराभिधानश्रीपद्मनाभमिश्रकृतः सेतुश्च (अपूर्ण:) इत्यन्येऽपि केचिद् व्याख्यानग्रन्थाः प्रशस्तपादभाष्यस्योपलभ्यन्ते। वैशेषिकदर्शनेऽनुपलब्धास्वमुद्रितासु वा भाष्यव्याख्यासु वाक्यम्, रावणकृतं भाष्यम्, श्रायस्ककृता व्याख्या,
For Private And Personal Use Only