________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
परिमाणपृथक्त्वसंयोगविभागाः इति । एतंर्गुणैर्गुणवत् । अत्र केषाञ्चिदुत्पत्त समवायिकारणम्, शब्दश्चासाधारणत्वाल्लक्षणमिति ।
ननु सर्वमेतदाश्रयासिद्धम्, आकाश सद्भावे प्रमाणाभावात्। न । प्रत्यक्षेणानुपलम्भेऽप्यनमानेन सद्भाव सिद्धेः । किमनुमानमित्याह * शब्द: * इति । 5 तथाहि, शब्द: क्वचिदाश्रितः, गुणत्वाद्, यो यो गुणः स स क्वचिदाश्रितः, यथा
रूपादिः, तथा चायं गुणः, तस्मादाश्रित इति ।
____ अथ पृथिव्यादेर्गणो भविष्यतीत्याह * न स्पर्शवविशेषगुणः * अस्मदादिप्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वात्, यो योऽस्मदादिप्रत्यक्षत्वे सत्यकारणपूर्वकः स स स्पर्शवतां विशेषगुणो न भवति, यथा सुखादिः, तथा चायं यथोक्तसाधनः, तस्मात् स्पर्शवतां विशेषगणो न भवतीति ।
ननु चात्र विशेषगुणप्रतिषेधे साध्ये सामान्यगुण प्राप्तिः विशेषप्रतिषेधस्य शेषाभ्यनुज्ञायां सामोपलब्धेः। अथ सामान्यगुणप्रतिषेधस्तथापि विशेषगुणप्राप्तिरिति। नैतदेवम् । प्रतियोग्यपेक्षत्वात् पक्षादिव्यवस्थायाः। तथाहि, परेण क्षित्यादिविशेषगुणत्वं शब्दस्याभ्युपगतं तस्यैव प्रतिषेधः, सामान्यगुणत्वञ्च नेष्टमेव । शेषाभ्यनुज्ञा तु यत्रोभयोः प्रमाणेन प्रसिद्धिस्तत्रैकप्रतिषेधेऽन्यस्याप्रतिषिद्धस्यावस्थानम् । यथा दर्शनं सव्येतरचक्षुभ्( संपाद्यं दृष्टमित्येकप्रतिषेधेऽन्यस्याप्रतिषेधादवस्थानमिति । न चैवं शब्दस्य क्षित्यादिसामान्यगुणत्वं परस्य सिद्धमित्यदूषणमेतत् । अत एव यद्यपि संयोगविभागादेरस्मदादिप्रत्यक्षत्व सत्यकारणगुणपूर्वकत्वम्, तथापि स्पर्शवद्विशेषगुणत्वं नास्तीति सपक्षेऽन्तर्भावादनकान्तिकत्वाभावः । रूपादयश्च विपक्षास्ते च कारणगुणपूर्वका इति साधनशून्या एव। तथापि पार्थिवपरमाणुरूपादयोऽकारणगुणपूर्वकाः स्पर्शवतां विशेषगुणाश्चेति व्यभिचारः, तदर्थमस्मदादिप्रत्यक्षत्वे सतीति विशेषणम् । ते तु योगिनामेव प्रत्यक्षा इति । अस्मदादिप्रतिपादनाय शास्त्रस्यारम्भादस्मदादिविशेषणन्तु लभ्यते ।
अन्ये तु संयोगादिभिर्व्यभिचारपरिहाराय शेषाभ्यनुज्ञा [ ? प्रतिज्ञा ] वाक्या. दुद्धृत्य विशेषपदं हेतुपदेन सह सम्बन्धयन्ति । तथा हि न स्पर्शवतां गुणः शब्दः, अस्मदादिप्रत्यक्षत्वे विशेषगुणत्वे च सत्यकारणगुणपूर्वकत्वात्, सुखादिवत्, अत्र हि सामान्यतो विशेषयोगात् सामान्यप्रतिषेधाद् विशेषप्रतिषेधो भवत्येव, ब्राह्मण्यनिषेधाद्
For Private And Personal Use Only