________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आकाशवैधर्म्यम् वाजसनादिप्रतिषेधवदिति । अत्र च प्रतिज्ञावाक्ये समासान्तर्गतं पदं हेतुपदेन कथं सम्बद्ध्यत इति चिन्त्यम्।
नन्वकारणगुणपूर्वकत्वादिति हेतुरसिद्धः, परदृष्ट्या संयोगाद् विभागाच्छब्दाच्च कारणगुणाच्छब्दस्य निष्पत्त्यभ्युपगमात् । तथाहि, शब्दस्य कारणमाकाशं तद्गुणाश्च संयोगादयः कारणगुणास्ते कारणमस्येति कारणगुणपूर्वकत्वम् । नैवम् । अभिप्राया- 5 परिज्ञानात् । तथा चायमर्थो विवक्षितः। समवायिकारणेषु गुणा: कारणगुणास्ते पूर्व कारणं यस्य गुणस्यासौ कारण गुणपूर्वकः, यथा पटरूपादिस्तन्तुरूपादिपूर्वक इति । न चैवं शब्दस्य, आकाशस्याकार्यत्वेन समवायिकारणगुणाभावादिति ।
अथ स्वदृष्टया कारणगुगपूर्वकत्वम् । तथा च भेरीशब्दस्तदवयवशब्दपूर्वकः तथा शङ्खशब्दश्चेति ? न । तेषामनुपलम्भात् । तथाहि, शङ्खशब्दकाले शङ्खावयवशब्दा 10 नानुभूयन्त इति । यथा पटरूपानुभवकाले तन्तुरूपाणामनुभव इति ।
___अथाभिभूतत्वादनुपलम्भः ? न । तदस्तित्वे प्रमाणाभावात् । तथाहि, तदवयवशब्दाश्चिरोत्पन्ना एवावयविनि शब्दमारभन्त इति न प्रमाणमस्ति । यदि वा अवयवशब्दानामवयविशब्दरभिभूतत्वाद् विद्यमानानामप्यनुपलम्भः, [ तदा तदभावे सति तदुपलम्भः स्यात, रासभशब्दाभावे वीणाशब्दस्येव । यथा हि वाद्यमानायां वीणायां 18 रासभसन्निधौ विद्यमानस्यापि वीणाशब्दस्याभिभवादनुपलभः पुनरभिभावकाभावादुपलम्भो दृष्टो न चैवमवयविशब्दानामस्ति संवेदनम् ।
न च कारणगुणपूर्वकेषु कारणाभिभावकत्वं दृष्टं तथा शब्दाभिभवेऽपीति, [अपि] तु शब्दस्य [ तीब्रस्य ] ग्रहणान्मन्दस्याग्रहणमिति । न चावयविशब्दोपलम्भकाल एवावयवशब्दानामग्रहणं मप्यनुपलम्भात् । यावद्रव्यभावित्वञ्च कारणगुण- 20 पूर्वकाणाम्।
न च सत्यकार्यबादब वियवावयविशब्दानां सद्भावेऽपि व्यञ्जकाभावादनुपलम्भ इति वाच्यम्, तनिषेधस्य वक्ष्यमाणत्वात् ।
न चावयवशब्दानामवयविशब्दवैलक्षण्यादसमवायित्वं वाच्यम्। तस्य हि समानजातीयेष्वत्यन्तविजातीयेषु च दर्शनात् । यथा हि कारणगताद् रूपाच्छुक्लतमात् 25 कार्ये तथाभूतं रूपम् एवं रसादिष्वपीति । तथात्यन्तविजातीयस्यासमवायिकारणत्वं
For Private And Personal Use Only