SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आकाशवैधर्म्यम् प्रापकधर्माधर्मोपनिबद्धः । तस्य च नित्यत्वे सत्युप निबन्धकवैकल्याद् बाधिर्यमिति । ___ इदानीमाकाशस्योद्देशवतो लक्षणपरीक्षार्थं प्रकरणम् * आकाशकालदिशामेकैकत्वादपरजात्यभावे पारिभाषिक्यस्तिस्रः संज्ञा भवन्ति * इति। एताश्च समुच्चयं विना आकाशादीनां लक्षणमित्याह * आकाशं कालो दिगिति * यथासंख्यम् । तथा 5 हि 'इति' शब्दस्य प्रत्येकमभिसम्बन्धादाकाशमिति संज्ञा आकाशे काल इति काले, दिक्संज्ञा दिशि, न तिस्रोऽप्येकस्मिन्निति । अथ कस्मादिमा: पारिभाषिक्यः ? द्रव्यगुणकर्मात्मकस्य निमित्तस्याभावात् । अथाकाशत्वादि सामान्यलक्षणं निमित्तं भविष्यतीत्याह * अपरजात्यभावे * इति । अपरा हि जातिव्यत्वापेक्षयाकाशत्वकालत्वदिक्त्वरूपा, सा तु न सम्भवत्येव 10 आकाशादेरेकत्वात्, सामान्यस्य च नानाधिष्ठानत्वादिति । न चाकाशादीनां पारिभाषिक्यस्तिस्रः संज्ञा भवन्तीति साधाभिधानं न सम्बद्धम् । वैधावसरेण संज्ञानां परस्परव्यावृत्ततया वैधर्म्यरूपत्वाद्, एकत्राभिधानञ्च शास्त्रस्य सङ्ग्रहरूपत्वादिति । तथा चाकाशमिति संज्ञा अनादिकालप्रवाहायाता, नान्यत्र सम्भवतीत्यसाधारणत्वाल्लक्षणम् । एतच्च विशेषणमाल्लभ्यते। तथा 15 ह्याकाशम्, इतरस्माद् भिद्यते, अनादिकालप्रवाहायाताकाशशब्दवाच्यत्वात् । यस्त्वितरस्मादनाकाशादेन भिद्यते, न चासावेवम्, यथा क्षित्यादि न च तथाकाशः, तस्माद् भिद्यत इति । ननु पारिभाषिक्यः संज्ञा न सम्भवन्त्येव निमित्तचतुष्टयाभावस्येव निमित्तत्वाद् इति चेत् । तथाहि, यत्र द्रव्यगुणकर्मसामान्यात्मकं निमित्तं न सम्भवति तत्रैव 20 विर्तते नान्यत्रेति तदभावो निमित्तम् । नैतदेवम् । स्वानुरक्तप्रत्ययहेतोनिमित्तस्यात्र विवक्षितत्वात् । यथा हि द्रव्यगुणसामान्यानुरक्तो दण्डीत्यादिव्यवहारस्तथा च नायमाकाशादिव्यवहारस्तदभावानुरक्त इति पारिभाषिक्य एव। पूर्वं हि द्रव्याणां समवायित्वं गुणत्वञ्चोक्तम् । तत्र कैर्गणैर्गुणवत् ? केषामुत्पत्तौ समवायिकारणम् ? किञ्च गुणात्मकं लक्षणमित्याह * तस्य' गुणाः शब्दसंख्या- 25 For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy