SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०८ 5 15 www.kobatirth.org 20 व्योमवती Acharya Shri Kailassagarsuri Gyanmandir न च शरीरादिमत्त्वेन कर्तृत्वं व्याप्तमिति तदभावात् तस्याप्यभाव इति च वाच्यम् । कार्यानुमानस्य चाव्यभिचारित्वे कर्तृसद्भावसिद्धेः । न चात्र व्यापका - नुपलब्धेर्बाधिकत्वम् । अनुमानस्थानुमानान्तरेण बाधायोगात् । पूर्वानुमानेन च धर्मसद्भावसिद्धावुपकृतविषयत्वम्, असिद्धौ वा न पक्षधर्मत्वम् । आकाशकालदिशामेकैकत्वादपरजात्यभावे पारिभाषिक्यस्तिस्रः संज्ञा भवन्त्याकाशं कालो दिगिति । तस्य गुणाः शब्दसंख्या10 परिमाणपृथक्त्व संयोगविभागाः । तत्र शब्दः प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वाद् अयावद्द्रव्यभावित्वाद् आश्रयादन्यत्रोपलब्धेश्च न स्पर्शवद्विशेषगुणः । अथ " नित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च दुरन्वयम् " ( प्र. वा. १ । २५ ) इत्यकर्तृकत्वमेवेश्वरस्य । तन्न । क्षणिकत्वप्रतिषेधस्य वक्ष्यमाणत्वात् । अयञ्चेश्वरवादोऽस्मद्गुरुभिविस्तरेणोक्त इति नेह प्रतन्यते । बाह्येन्द्रियप्रत्यक्षत्वाद् आत्मान्तरग्राह्यत्वाद् आत्मन्यसमवायाद् अहङ्कारेण विभक्तग्रहणाच नात्मगुणः । श्रोत्रग्राद्यत्वाद् विशेषगुणभावाच न दिक्कालमनसाम् । पारिशेष्याद् गुणो भूत्वाकाशस्याधिगमे लिङ्गम् । शब्दलिङ्गाविशेषादेकत्वं सिद्धम् । तदनुविधानात् पृथक्त्वम् । विभववचनात् परममहत्परिमाणम् । शब्दकारणवचनात् संयोगविभागाविति । समानासमान अतो गुणवत्त्वाद् अनाश्रितत्वाच्च द्रव्यम् | जातीयकारणासम्भवाच्च नित्यम् । सर्वप्राणिनाश्च शब्दोपलब्धौ निमित्तं श्रोत्रभावेन । श्रोत्रं पुनः श्रवणविवरसंज्ञको नभोदेशः शब्दनिमित्तोपभोग For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy