________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ईश्वर सिद्धौ शङ्का तत्समाधानञ्च
वस्तुभेदे प्रसिद्धस्य शब्दसाम्यादभेदिनः ।
न युक्तानुमितिः पाण्डुद्रव्यादिव हुताशने ॥ ( प्र. वा. १११४ )
यदि किञ्चित् कार्यं कर्त्रविनाभूतं दृष्टमित्यपरिदृष्टाविनाभावस्यापि तत्पूर्वकत्वं स्यात् । तथा सति घटादेमृद्विकारस्य कुलालपूर्वकत्वोपलम्भाद् वल्मीकादीनामपि तत्पूर्वकत्वं स्यात् । तदुक्तम्,
अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित् ।
घटादे: करणात् पिध्येद् वल्मीकस्यापि तत्कृतिः ॥ (प्र. वा. १/१५)
कथं तदं सित्यादिकार्यं कर्म मिति, कथं हि कर्मजं जगतां वैचित्र्यमित्युक्तम् ? तच्च चेतना मानसं कर्मेति न विज्ञानादर्थान्तरमिति ।
सर्वमेतदसम्बद्धम् । सामान्येन कार्यत्वस्य [ कर्तृव्याप्यत्वं ], बुद्धिमता व्याप्तेरुपलम्भात् क्षितावपि तत्सिद्धेः । सर्वश्वानुमानमन्य [ ] सामान्येन व्याप्तिग्रहणापेक्षं प्रवर्तत इत्युक्तम् । न किञ्चिदप्यनुमानं पक्षे व्याप्तिग्रहणापेक्षं सम्भवतीदूषणमेतत् । क्षित्यादिकार्यं न कर्तृव्याप्त नुपलब्धमिति । न चेत्यम्भूतं कार्यं कर्तृ ( ? र्त्र ) विनाभूतं नोपलब्धमित्यनुमानाभाव इति वाच्यम्, सर्वानुमानोच्छेदप्रसङ्गात् । तथाहि कृतकत्वादनित्यत्वं शब्देऽभ्युपगतम् । अत्रापि शक्यते वक्तुं 'यत् शब्दे कृतकत्वं तन्नान्यत्रानित्यत्वाविनाभावित योपलब्धम्' इत्यनुमानाभावः । अथ सामान्येन कृतकत्वानित्यत्वयोरन्यत्र व्याप्तिग्रहणे सत्यनुमानं न पक्षे इति चेत्, समानमीश्वरानुमानेऽपीति । न चात्र शब्दसामान्य [ ? साम्य ] मेत्र, कार्यत्वस्योभयत्राव्यभिचारिणः सद्भावात् । न चैवं पाण्डुत्वमग्नेर्गमकम्, तस्याग्निमन्तरेण सद्भावेन व्यभिचारित्वादिति । एवञ्च वल्मीकादावपि मृद्विकारत्वं न कुलाल पूर्वकत्वे लिङ्गम्, व्यभिचारात् । तस्य हि प्राकारेष्टकादिष्वकुलालपूर्वकेष्वपि सद्भावात् ।
यच्चेदं कर्मजं जगतां वैचित्र्यमिति, तदिष्यत एव। यदि नामाचेतनत्वात् कर्म चेतनाधिष्ठितं कार्यकरणे प्रवर्तत इतीश्वरस्यापि सद्भावः परस्यापि [ ? कार्यस्यापि ] सद्भावः । यद्यपि चेतनेनैव कर्म तथापि नापि तस्य चित्राधारत्वं चेतनत्वमेव । न च तस्य बोधेन तादात्म्यमात्मगुणत्वस्य वक्ष्यमाणत्वात् । नापीदमेक शाखाप्रभवत्वानुमानेन तुल्यम् । तत्र कशाखाप्रभवत्वेन हेतुना फलान्तराणां पाके साध्ये प्रत्यक्षेण बाधोदादप्रामाण्यं युक्तम्, न चैवमीश्वरानुमान इति ।
For Private And Personal Use Only
१०७
5
10
15
20
25