________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
व्योमवती
निवृत्ती तु पुरुषस्य सुखदुःखसाधनत्वाद् व्यवसाये समर्थस्यार्थित्वाद् भवत इति ।
अथ विध्यङ्गत्वादमीषां प्राधान्यं न स्वरूपार्थत्वादिति चेत्, तदसत् । स्वार्थप्रतिपादकत्वेन विध्यङ्गत्वात् । तथाहि, स्तुतेः स्वार्थप्रतिपादकत्वेन प्रवर्तकत्वम्, निन्दायाश्च निवर्तकत्वम् । अन्यथा हि तदर्थापरिज्ञाने विहितप्रतिषिद्धेष्वविशेषेण प्रवृत्तिनिवृत्ती स्याताम् । तथा विधिवाक्यस्यापि स्वार्थप्रतिपादनद्वारेणैव पुरुषप्रेरकत्वं दृष्टम् । एवं स्वरूपपरेष्वपि वाक्येषु स्यात्, वाक्यरूपतया अविशेषाद् विशेषहेतोश्चाभावादिति।
तथा स्वरूपार्थानामप्रामाण्ये 'मेध्या आपो दर्भाः पवित्रममेध्यं xxxx मशुचिः' इत्येवंरूपापरिज्ञाने विध्यङ्गतायामविशेषेण प्रवृत्तिनिवृत्तिप्रसङ्गः। न चैतदस्ति। मेध्येष्वेव प्रवर्तन्ते, अमेध्येषु च निवर्तन्त इत्युपलम्भात् । तदेवं स्वरूपार्थेभ्यो वाक्येभ्योऽर्थस्वरूपावबोधे सति इष्टे प्रवृत्तिदर्शनादनिष्टे च निवृत्तिरिति ज्ञायते, स्वरूपार्थानां प्रमाजनकत्वेन प्रवृत्तौ निवृत्तौ वा विधिसहकारित्वमिति । अपरिज्ञानेन तु प्रवृत्तावतिप्रसङ्गः।
अथ स्वरूपार्थानां प्रामाण्ये 'ग्रावाण: ८ठवन्ते' इत्यादीनामपि यथार्थता स्यात्।न। 15 मुख्य बाधकोपपत्तेः। यत्र हि मुख्य बाधकं प्रमाणमस्ति तत्रोपचारः कल्प्यते। तदभावे
तु प्रामाण्यमेव । न चेश्वरसद्भावप्रतिपादकेष्वस्ति किञ्चिद् बाधकमिति । तदेवं सृष्टिसंहारप्रतिपादकानामपि वाक्यानां स्वरूपेऽर्थे प्रामाण्याद् विपरीतार्थकल्पना अन्याय्येति ।
एतेन शाक्यपक्षोऽपि प्रतिषिद्ध एव । तथाहि, शाक्या अपि दृष्टान्तदार्टान्तिकयोरुत्कर्षापकर्षेण प्रत्यधि [ ? व ] तिष्ठन्ते । तत्र चोक्तमेव प्रतिसाध [? समाधा] नमिति । 20 तच्च जात्युत्तरम् । यत् कार्य यादृशका व्याप्तमुपलब्ध यदुपलब्धेरेतक्रियादर्शिनः
'केनाप्येतत् सम्पादितम्' इति बुद्धिर्भवति, तदेवोपलभ्यमानं तादृशमेव कारं गमयेत् । तदुक्तम्,
सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत् ।
सन्निवेशादितयुक्तं तस्माद् यदनुमीयते ॥ (प्र. वा. १।१३) न च क्षित्यादिकार्यं कर्जविनाभूतं दृष्टमिति कथं कर्तारं गमयेत् ? अथ सत्यपि _ भेदे कार्यशब्दसाम्यादनुमानम् ? एवं तर्हि धूमे पाण्डुत्वमग्निना व्याप्तमुपलब्धमिति
प्रासाददेशादावप्युपलभ्यमानमग्निं गमयेत् । तदुक्तम् ,
25
For Private And Personal Use Only