________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ईश्वरसिद्धौ शङ्का तत्समाधानञ्च
१०५
न बाध्यत इति [ चेत् ], तथा [ सति ] संहारावस्थायां शरीरस्य नाशे पुनः सर्गादावशरीरस्याकर्तृत्वे कार्योत्पत्तिर्न स्यादित्यशरीरस्यैव कर्तृत्वमभ्युपगतम् [ ? भ्युपेयम् ] ।
___ अथ प्रयोजनापेक्षितया कतणां प्रवृत्तेरुपलम्भात् तदभावाच्चेश्वरे प्रवृत्त्यभाव इति चेत्, तदसत् । कार्यसद्भावेन कर्तृसदभावसिद्धेः। तस्य च स्वयं । परिपूर्णत्वात् परार्थी प्रवृत्तिर्गम्यते। यद् वा प्रवृत्तिशीलत्वाद् भगवतो नायं पर्यनुयोग इति । यथा हि भास्वान् प्रकाशनशीलत्वात् पदार्थान् प्रकाशयति, एवमितरोऽपि कार्यकारणरूपत्वात् कार्यं करोतीति ।
अथाशरीरस्येच्छामात्रेण कथं प्रेरकत्वम् ? ययास्मदाद्यात्मनः शरीरादिप्रेरकत्वमिति । अथ सत्येव शरीरे प्रेर्यप्रेरकत्वम् ? इहापि सत्येव परमाणौ प्रेर्यप्रेरकत्वमिति 10 समानम् ।
अथ सिसृक्षा सञ्जिहीर्षा वा महेश्वरस्य यदि नित्या, सततं कार्योत्पत्तिः । अथानित्या, सापीश्वरेच्छां विना न भवतीत्यपरमिच्छान्तरम्, तदप्यनित्यत्वादीश्वरेच्छाधीनम् इत्यनवस्थायां तत्सम्पादन एवोपक्षीणत्वाद् भगवतो न कार्यान्तरे व्यापारः स्यात् । अथेश्वरेच्छां विनापीश्वरेच्छा सम्पाद्यते तहि कार्यान्तरेऽप्येवमस्तु ।
15 अथ नित्यापि सहकारिप्राप्ती कार्यं करोति । सहकारिणामपि नित्यत्वे सतत कार्योत्पत्तिः, अनित्यत्वे वा तानपि सहकारिणः सम्पादयन्ती सहकार्यन्तरमपेक्षते । तेषामप्यनित्यत्वे पुनः सहकार्यन्तरम् इत्यनवस्थायां पूर्वदोषानुषङ्गः ।
नैष दोषः। विनो [ ? चिरो] त्पन्नादृष्टसद्भावे सतीच्छायाः कार्यकरणात् । तथाहि, सहकारिसम्पादनेऽप्यन्यं सहकारिणमपेक्षते, तत्राप्यन्यमित्यनादित्वं परिहारः। 20 उक्तञ्चेच्छायाः सृष्टौ संहारे च सहकारितेति । तथा,
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ।
सं बाहुभ्यां धमति संपतत्रैवाभूमी जनयन् देव एकः॥ ( तै. आर. १०; नारा. पनि. खं ३।२ ) इत्यागमेन प्रसिद्धः ।
न च स्वरूपप्रतिपादकानामप्रामाण्यां प्रमाजनकत्वस्य सद्भावात् । तथाहि, प्रमाजनकत्वेन प्रमाणस्य प्रामाण्यम्, न प्रवृत्तिजनकत्वेन। तच्चेहाप्यस्त्येव । प्रवृत्ति
For Private And Personal Use Only