________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
व्योमवती
न च तदभावे तस्य प्रेरकं [ ? कत्वं ] दृष्टम् । न चाचेतनस्याकस्मात् प्रवृत्तिरुपलब्धा । प्रवृत्तौ वा परिनिष्पन्नेऽपि कार्ये प्रवर्तेत, विवेकशून्यत्वात् ।
अथाचेतनात्मनाधिष्ठितं च क्षीरं प्रवर्तते ? तन्न। गोवत्सप्रयत्नाभावे मृतावस्थायामप्रवृत्तेः। सर्वञ्चास्मदाद्यनधिष्ठितं पक्षेऽन्तभूतमिति न साध्येनैव साधनस्य व्यभिचारः, सर्वानुमानोच्छेदप्रसङ्गात् । तथा च अचेतनान्यस्मदन्येनाधिष्ठितानि, कार्योत्पत्तौ बुद्धिमदविष्ठितानि, अचेतनत्वात्, यद् यदचेतनं तत्तद् बुद्धिमताधिष्ठितं प्रवर्तमानं दृष्टम् यथा तन्त्वादि, तथा चैतानि, तस्माद् यथोक्तसाव्यानि ।
अथ कर्तुः शरीरादिमत्त्वोपलब्धेरीश्वरेऽपि तथाभावः, किमत्र साध्यते. यदि शरीरादिमत्त्वेऽपि क्षित्यादिकर्तृत्वमभ्युपगम्यते? अथ शरीरादिमत्त्वाद् असर्वज्ञस्य न 10 क्षित्यादिकर्तृत्वम् ? तर्हि कार्यस्य कर्तृव्यभिचाराद् अशरीरस्यैव कर्तृत्वमभ्युपेयम् । न
च शरीरादिमत्त्वे प्रमाणमस्ति । अथ कर्तृत्वमेव प्रमाणम् । तद् व्याहतमेव । कर्तृत्वेन शरीरादिमत्त्वं शरीरादिमत्त्वाच्च क्षित्याद्यकर्तृत्वमिति ।।
न चेदं स्वतन्त्रसाधनम्, आश्रयासिद्धत्वात् । तथा हि सिद्धे कर्तृसद्भावे कर्तृत्वस्य शरीरादिमत्त्वस्य च पक्षधर्मत्वं स्यात्, न चैतदभ्युपगतम् ।
अथ परेण क्षित्यादिकर्ताऽभ्युपगत इत्यनिष्टापादनमेतत् । न यदि प्रमाणायत्तस्तदुपगमस्तेनैव बाध्यमानत्वादनुत्यानं विपरीतानुमानस्य । न चैतस्यानेनैव बाधः स्यात्, तन्मूलत्वात् । अथ प्रमाणं विनैवाभ्युपगतः परेण ? तर्हि प्रमाणं विना प्रमेयस्यासिद्धेः किं विपरीतानुमानेन, तस्याश्रयासिद्धताप्रसङ्गात् । समानञ्चैतदन्येष्वपीश्वरप्रतिषेधहेतुष्विति ।
तथा शरीरसम्बन्धे सति नियतदेशतया युगपदनियतदेशं कार्य न स्यात् । तत्त दृष्टम् । अथैकमनियतदेशस्य कार्यस्योत्पत्त्या व्यापि शरीरं नित्यमतीन्द्रियञ्चेष्यते ? तन्न । दृष्टविपरीतत्वात् । परञ्चाशरीरस्यैव कर्तृत्वमभ्युपेयमिति । तथाहि, नित्यशरीरासम्भवात् । तच्छरीरं तत्सम्पाद्यमेवेति किं शरीरान्तरेण (विना चारभ्यते?)। शरीरान्तराभ्युपगमे तद् अन्यशरीरयुक्तेन सम्पाद्यत इति शरीरपरम्परायामुपक्षीणत्वाद् भगवतो नान्यत्कार्य प्रादुर्भवेदिति । अथ (T?) शरीरस्यौव शरीरकर्तृत्वं तत्कार्यावसरेऽपि
For Private And Personal Use Only