________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ईश्वर सिद्धौ शङ्का तत्समाधानञ्च
कर्तृमात्रस्येति चेत्, न । कथमत्र क्षित्यादिसम्पादनसामर्थ्ये संज्ञाभेदमात्रम्, असामर्थ्य तु कार्यानुत्पत्तिरिति । दृष्टश्च कार्यम् । तथा समस्तविशेषप्रतिषेधे निराधारस्य सामान्यस्याप्रसिद्धेर्निविषयत्वेनाप्रमाणताप्रसङ्गः । न चेदमप्रमाणं सामान्यव्याप्तेः प्रतिषेद्धुमशक्यत्वात् । अथ विशिष्टविशेषप्रतिषेधः ? तदा विशेषाभ्यनुज्ञायां विशेषान्तरोपगमप्राप्तिः, वामेनाक्ष्णा न पश्यतीति यथा ।
अथाग्निधूमयोः प्रत्यक्षेण सम्बन्धसिद्धेरनुमानप्रवृत्तिर्युक्ता, नैवमत्रेति चेत्, न । इहापि कार्यत्वस्याधिष्ठातृपूर्वकत्वेन सम्बन्धसिद्धेरनुमानं प्रवर्तत एव ।
अग्निरनुमानाद् ऊमपि प्रत्यक्षो नैवम् ईश्वर इत्यनुमानं कथमिति चेत्, न । अत्यन्तपरोक्षस्यापि चक्षुरादेरुपलब्ध्यनुमेयत्वात् । अथात्र सामान्येन क्रियायाः कारण कार्यत्वोपलब्धेरनुमानम्, तर्हि कार्यत्वस्य सामान्येन कर्तृपूर्णकत्वोपलब्धेरनुमानमिति। अभ्युपपन्नच कार्यत्वस्य शरीरादिमता कर्त्रा व्याप्तत्वाद्, घटादौ तथाभूतस्यैवात्र सिद्धिरिति वाच्यम् । दृष्टान्तदान्तिकयोरुत्कर्षापकर्षेण प्रत्यवस्थानस्य सर्वानुमानोच्छेदकत्वात् । तथा ह्यविद्यमानस्य शरीरादेरापादनम् उत्कर्णः । विद्यमानस्य च सर्वज्ञत्वादेरपकर्षणम् अपकर्षः । न च सर्वे दृष्टान्तधर्मा दाष्टन्तिकेऽपि भवन्ति, अभेदे दृष्टान्त दाष्टन्तिकव्यवहारोच्छेदप्रसङ्गात् । न हि छिदिक्रियायाः करणं कुठारादि दृष्टमिति रूपोपलब्धिक्रियायामपि तथा भवति । यथा चात्रापास्तविशेषेण करणेन क्रियाया व्याप्तत्वादनुमानम् एवंमीश्वरानुमानेऽपि इत्यनुत्थानं जातिप्रयोगस्य ।
एतेन यदाह,
कस्यचिद् हेतुमात्रस्य यद्यधिष्ठातृतोच्यते ।
कर्मभिः सर्वबीजानां तत् सिद्धः सिद्धसाधनम् ॥ ( इलो. वा. सम्बन्धा० ७५) इति, तदपास्तं भवति ।
तथा हि बुद्धिमत्यधिष्ठातरि साध्ये कथमचेतनेन कर्मणा सिद्धसाधनम् ? तस्याप्यचेतनतयाधिष्ठात्रपेक्षत्वात् । तथाहि सर्वमचेतनं चेतनाधिष्ठितं प्रवर्तमानं दृष्टम्, यथा तन्त्वादि, तथा च कर्मादि । न चास्मदाद्यात्मैवाधिष्ठायकः, तस्य तद्विषयज्ञानाभावात्। तथा चास्मदाद्यात्मनो न कर्मविषयं ज्ञानमिन्द्रियजम् । नापि परमाण्वादिविषयम् ।
For Private And Personal Use Only
१०३
5
10
15
20
25