________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
व्योमवती
नन्वेवम् अशेषज्ञेयज्ञानाधारविधातृपूर्वकत्वे साध्ये साध्यविकलो दृष्टान्तः कुम्भादावसर्वज्ञपूर्वकत्वेन व्याप्तस्य कार्यत्वस्योपलब्धेः। तथा विरुद्धश्च हेतुः। न विवादास्पदं सर्वज्ञपूर्वकम्, कार्यत्वाद्, घटवत् । असर्वज्ञपूर्वकत्वे च साध्येऽभिप्रेतस्यासिद्धिरिति ।
नैतदेवम् । बोधाधारेऽधिष्ठातरि साध्ये न साध्यविकलत्वम्, नापि विरुद्धत्वम् । न च कार्यत्वं बुद्धिमन्तमधिष्ठातारं व्यभिचरतीत्यव्याभिचारोपलम्भसामर्थ्याद् उपलभ्यमानं पक्षे क्षित्यादिसम्पादनसमर्थमेव अधिष्ठातारं साधयतीति । न च क्षित्याधुपादानोपकरणानभिज्ञः शित्यादिसम्पादनसमर्थ इति परमाण्वादिविषयज्ञानं तत्कर्तुर्लभ्यते। पक्षधर्मताप्रसादात् सर्वञ्चानुमानं सामान्येन व्याप्तिग्रहणबलात् प्रवर्तमानं पक्षधर्मताबलात् साध्यविशेषं साधयतीति दृष्टम् । न च विस्फूर्जतापि परेणात्र बोधाधारकारण [क] त्वकार्यत्वयोः सामान्यव्याप्तेयाघातः शक्यासाधनः । विशेषेण त व्यातिविरहादसाधनत्वे धूमस्याप्यसाधनत्वप्रसङ्गः। तत्राप्यपास्ताशेषविशेषेणाग्निमात्रेण धूममात्रव्याप्तरुपलम्भादिति। तथा चावापि विशेषविरोधः सम्भवत्येव । अयं पर्वतः, पर्वतावष्टब्धाग्निमान्. न भवति, धूमवत्त्वात्, यो यो धूमवान् स स विशिष्टाग्निमान् न भवति यथा रसवतींप्रदेशः, तथा चायम्, तस्माद् यथोक्तसाध्य इति ।
15
अथ धूमस्याग्निमात्रेण व्याप्तेरुपलम्भाद् यत्रोपलम्भस्तगैवाग्निस्तत्रौवाग्निप्रसाधकत्वाद् विरुद्धतानवकाश इति चेत् । इहापि समानम् । कार्यत्वस्य बुद्धिमता व्याप्तरुपलम्भात् पक्षे तत्साधकत्वमिति । अथ धूमप्रदेशोऽग्निना व्याप्तो दृष्ट इति प्रदेशान्तरेऽप्यग्निमत्त्वं प्रसाधयतीति युक्तम् । नन्वेवं तर्हि कार्यत्वमपि यत्रोपलब्ध तदेवोत्पादनसमर्थेनैव का व्याप्तमिति पक्षेऽपि क्षित्यादिसम्पादनसमर्थं कर्तारं गमयेत् ।
यच्चेदमनमानं न विवादास्पदं सर्वज्ञपूर्वकमिति, तत्र विशेषप्रतिषेधस्य शेषाभ्युपगमे सामोपलब्धेरसर्वज्ञपूर्वकत्वं स्यात्, कार्यत्वस्य कर्बव्यभिचारादिति ।
यश्चासौ असर्वज्ञः स यदि क्षित्युत्पादनसमर्थः संज्ञामात्र भिद्यतेति । अथासमर्थः 25 कथं क्षित्यादेः कर्ता।
अथ परस्य सर्वज्ञत्वविशेषः कार्यत्वेन हेतुनाभिप्रेतस्तत्प्रतिषेधार्थं विधिरसर्वज्ञपूर्वकमिति। तत्र विशेषप्रतिषेधस्य शेषा [भ्यनुज्ञा] भ्युपगमे सामर्थ्योपलब्धेविरुद्धानुमानं न
For Private And Personal Use Only