SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०१ ईश्वरसिद्धौ शङ्का तत्समाधानञ्च • स च महेश्वरेण विनियुक्तो ब्रह्मा ५ अतिशयेन ज्ञानञ्च, वैराग्यं च ऐश्वर्यञ्चेति तथोक्तानि तैः सम्पन्नो युक्तोऽत एव * प्राणिनां कर्मविपाकं विदित्वा सुतान् * सृजति । किंविशिष्टान् ? * प्रजापतीन् * प्रजायाः स्वामिनः, कर्मानुरूपं ज्ञानञ्च भोगश्चायुश्च येषां ते तथोक्तान् * कर्मानुरूपज्ञानभोगायुषः । इति । तथा मनसि भवान् मानसान् मनोव्यापारेण सङ्कल्पमात्रेण सम्पादितान् न कायिकव्यापारणेत्यतस्तानिति । 5 तथा मनवश्च देवाश्च ऋषयश्च पितरश्चेति तथोक्तास्तेषां गणाः समूहास्तांश्च सृजति । तथा हि चतुरो वर्णान् ब्राह्मणक्षत्रियविश्शूद्रान् कर्मानुरूपभोगज्ञानायुषः सृजति । केभ्य इत्याह * मुखबाहूरुपादतः • यथासङ्ख्यमिति । तथा * अन्यानि चोच्चावचानि * उत्तमाधमभावेनावस्थितानि भूतानि सृजति । एतांश्च पूर्वोक्तान् * सृष्ट्वाशयानुरूपैधर्मज्ञानवैराग्यैश्वर्यैः संयोजयति यस्य हि यादृशं कर्म तस्य तादृशानि धर्मज्ञान- 10 वैराग्यौश्वर्याणि सम्पादयतोति ।। ईश्वरसिद्धौ शङ्का तत्समाधानञ्च ननु सर्वमेतदसम्बद्धम्, ईश्वरसद्भावे प्रमाणासम्भवात् । तन्न। अनुमानागमाभ्यां तत्सद्भावसिद्धेः । तथा चानुमानम्, क्षित्यादिषु सृष्टिसंहारौ, कर्तृपूर्वकाविति । अथ सृष्टिसंहारयोभूतेष्वप्रसिद्धेरनुमानाभाव इति चेत्, रचनावत्वेन तत्सिद्धेः। 15 तथाहि, क्षित्यादीनि, कार्याणि, रचनावत्त्वात्, यद् यद् रचनावत् तत्तत् कार्यम्, यथा घटादि, तथा रचनावत् क्षित्यादि, तस्मात् कार्यमिति ।। न च रचनावत्त्वमन्तरेणापि कार्यत्व नुपलभ्यत इत्यप्रयोजकत्वं वाच्यम् । सर्वस्यापि सपक्षकदेशे वर्तमानस्यागमकत्वप्रसङ्गात् । तथाहि धूमस्याप्यप्रयोजकत्वं तदन्तरेणापि अग्निमत्त्वोपलब्धेः । अथ यत्र धूमस्तत्राग्निरिति व्याप्तिः? एवं तर्हि 20 यत्र रचनावत्त्वं तत्र कार्यत्वमिति समानम् । तथा च घटादावप्यभूत्वा भावित्वं प्रत्यक्षेणानुपलब्धञ्च रचनावत्त्वेनैव साध्यते, तथेदं संहारेऽपि समानमिति । सिद्धे च कार्यत्वे कर्तृपूर्वकत्वञ्च साध्यते। तथा च विवादास्पदं बोधाधारकारणं [ ? णकम् ], कार्यत्वात्, यद् यत् कार्यं तत्तद् बोधाधारकारणं [ ? णकं ] यथा घटादि, तथा चेदं कार्यम्, तस्माद् बोधाधारकारण [? क] मिति । अस्य च पक्षधर्मले सति सपक्षे वर्तमानस्य 25 विपक्षादत्यन्तं व्यावृत्तेरबाधितविषयत्वाद् असत्प्रतिपक्षत्वेन गमकत्वम् । For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy