________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
व्योमवती
10
[पतन] प्रतिबन्धे सामर्थ्यम् । अयञ्चातिशयेन महत्त्वे सति वेगसम्बन्धाद् उदधिसहितां पृथिवीं तृणमिव धारयत इति न चित्रम् ।
* तदनन्तरम् * वायूत्पत्त्यनन्तरम्, * तस्मिन्नेव : वायावधिकरणभूत एवेति । * आप्येभ्यः परमाणुभ्यस्तेनैव क्रमेण इति । कर्मोत्पत्तिद्वारेण विभागेभ्यः संयोगनिवृत्तौ परस्परसंयोगेभ्यो द्वयगुकान्युत्पद्यन्ते, ततस्त्र्यगुकमिति क्रमेण । महान् सलिलनिधिः १ समुद्रः समुत्पन्नः, ॐ पोप्लूयमान: * अत्यर्थ प्लवमानस्तिष्ठति ।
* तदनन्तरम् # सलिलोत्पत्त्यनन्तरम्, ॐ तस्मिन् ४ सलिलनिधावधिकरणे, * पार्थिवेभ्यः परमाणुभ्यः पूर्वक्रमेण द्वयगुकत्र्यणुकोत्पत्तिरिति । एवमादिक्रमेण महापृथिवी समुत्पद्यते । सा चोत्पन्ना * संहतावतिष्ठते *।
* तस्मिन्नेव महोदधौ * अधिकरणे तैजसेभ्यः परमाणुभ्यः पूर्ववद् द्वयणुको त्पत्तिक्रमेणोत्पद्यते महांस्तेजोराशिः। स चोत्पन्नो देदीप्यमानोऽत्यर्थ प्रकाशमानस्तिष्ठति । न च तेजसो जलेन विरोबादावाराधेयभावानुपपत्तिरिति वाच्यम् । आधाराधेयभावस्याप्युपलब्धेर्यथा वाडववरुणाविति ।
____ अन्ये तु विरोधपरिहारार्थ तस्मिन्नेव महोदधाविति वाक्यं पृथिव्यां सम्बन्धर यन्ति । तदनन्तरं तस्मिन् पृथिव्युत्पादे सति तेजसेभ्यः परमाणुभ्यो द्वयणुकादिप्रक्रमेण महास्तेजोराशिरिति।
पूर्वमनेन * एवम् * उक्तप्रकारेण । * समुत्पन्नेषु चतुर्षु महाभूतेषु सत्सु । * महेश्वरस्याभिध्यानमात्रात् * इच्छामात्रात्, न शरीरादिव्यापारादिति । तथा तत एव निमित्तात् तैजसेभ्यः परमाणुभ्यः पार्थिवपरमाणुसहितेभ्यो महदण्डमारभ्यते। किंविशिष्टम् ? महदिति । अत्र हि तैजसाः परमाणवः समवायिकारणम्, तत्संयोगाश्चासमवायिकारणम्, पार्थिवावयवाश्च निमित्तकारणं महेश्वराभिध्यानञ्चेति । द्वचणुकान्युत्पन्नानि त्र्यणुकादिप्रक्रमेण महदण्डमारभन्त इति । तस्मिंश्च अण्डान्तर्देशे ब्रह्माणमुत्पादयति।
किविशिष्टमित्याह * चतुर्वदनकमलम् - इति । चत्वारि कमलानीव वदनानि यस्यासौं तथोक्तस्तमिति । सर्वेषाञ्च लोकानां भूरादिसत्यान्तानां पितामहं स्वामिनम् । तथा सकलभुवनैः सहितञ्चेति। तमुत्पाद्य महेश्वरः प्रजासगें विनियुङ्क्ते ब्रह्मन् ! प्रजासगं कुर्विति।
20
For Private And Personal Use Only