________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सृष्टिसंहारविधिः
१९०
श्रितानां गुणकर्मणामनि बिनासः। ततः प्रविभक्ताः कार्यानाधाराः परमाणवोऽवतिष्ठन्ते। तथा न परं परमागवो धर्माधर्मसंस्कारैरनुविद्धाः सम्बद्धा आत्मानश्चावतिष्ठन्ते।
अथान्येषामपि सामान्यादीनामवस्थाने किमर्थ विशेषाभिधानमिति चेत्, द्रव्यविनाशस्य परमाण्वन्तताजापनार्थम् । आत्मनाञ्च धर्मादिविनाशकारण [त्वा] भावाद् धर्माधर्मसंस्कारानुविद्धानामवस्थानम्, न केवलानामिति । अन्यथा हि निमित्ताभावात् पुनरुत्पत्तिर्न स्यात् ।
अथ कियन्तं कालमेवमवस्थानमित्याह - तावन्तमेव कालम् इति । ब्राह्मण मानेन वर्षशतं यावदिति ।
ततः पुनर्वर्षशतान्तेऽपि विश्रामप्रापकादृष्टनिवृत्तौ प्राणिनां कर्मविपाकोपलम्भात् 10 भोगभूतये ५ भोगभूत्यर्थम् । महेश्वरस्य' * सिसृक्षा* स्रष्टुमिच्छा सम्पद्यते। तदनन्तरं पवनपरमाणुषु समवेतानि कर्माण्युत्पद्यन्ते। केभ्यः कारणेभ्य इत्याह * तत्संयोगेभ्यः * । तेषां भोगिनां संयोगा: परमाणुभिस्तेभ्य इत्यसमवायिकारणनिर्देशः ।। ते च कर्मारम्भे सापेक्षा इत्याह * सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यः * इति । सर्वात्मसु भोगिषु गताः सर्वात्मगतास्ते च ते वृत्तिलब्धादृष्टाश्चेति । वृत्त्या सहकारिकारणेन 15 लब्धाश्च तेऽदृष्टाश्चेति तथोक्तास्तानपेक्ष्यन्त इति तदपेक्षास्तेभ्य' इति । न तु वृत्तिर्लब्धा यैरिति व्याख्यानम्, अत्र निष्ठान्तस्य पूर्वनिपातप्रसङ्गात् ।
अथ कासौ वृत्तिरदृष्टानां सहकारिकारणम् ?: विश्रामप्रापकादृष्टाभावोपलक्षित: कालविशेषः, तत्सद्भावे कार्यकरणात् । तथाहि, ब्राह्ममानेनापरिपूर्णे वर्षशते विश्रामप्रापकादृष्टस्य प्रतिबन्धकस्य भावादुपभोगप्रापकादृष्टसद्भावेऽपि सृष्टिर्न भवति । परिपूर्णे तु वर्षशते विशिष्टादृष्टाभावादुपभोगप्रापकादृष्टानां सृष्टय व्यापार इति प्रतिबन्धकाभावविशिष्टः कालो वृत्तिस्तेषामिति ज्ञायते। महेश्वरस्यापि तत्सद्भाव एव सिसृक्षा भवतीति ।
तदेवं पवनपरमाणुषु कार्योत्पत्तौ सत्यामनन्तरं विभागः । तस्मात् संयोगनिवृत्तौ तेषां परमाणूनां परस्परसंयोगेभ्यो द्वयगुकान्युत्पन्नानि त्र्यणुकान्यारभन्त इत्यादि- 25 क्रमेण महान् वायुः सपुत्पन्नो नभस्याकाशे दोधूयमान इत्यतिशयेन कम्पमानस्तिष्ठति । स चादावुत्पन्नोऽतिशयवेगसम्बन्धाद् गुरुत्ववतामपातहेतुर्भवति। दृष्टञ्च वायोः पर्णादि
For Private And Personal Use Only