SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९८ 10 5 15 20 25 www.kobatirth.org व्योमवती स्यापि निवृत्तिरित्याह महेश्वरेच्छात्मानुसंयोगजकर्मभ्यः शरीरेन्द्रिय कारणाणुविभागेभ्यः, परमाणुर्यावत्तावद् विनाश इति । द्रव्यारम्भकसंयोगनिवृत्तिः स्वकारणा गुविभागेभ्यः ते च महेश्वरेच्छात्माणु संयोगजकर्मभ्यः । तथाहि, महेश्वरेच्छा निमित्तकारणम् । आत्मनाम् अणुभिः संयोगश्च असमवायिकारणम् । अणवस्तु समवायिन इत्यणुपु कर्माण्युद्यन्ते । कस्मिन्नवसर इत्याह [ सर्वात्मगतादृष्टानाम् ] सर्वात्मसु गताश्च तेऽदृष्टाश्च तेषाम् । किविशिष्टानाम् ? [ शरीरेन्द्रियमहाभूतोपनिबन्धकानाम् ] शरीरेन्द्रियमहाभूतान्युपनिबध्यन्ते सम्पाद्यन्ते यैस्तेषाम् । वृत्तिः फलदानसामर्थ्यम् । तस्योपभोगाद् युगपन्निरोधे विनाशे सति । स च सञ्जिहीर्षासमकालम् । यदा हि सकलभुवनपतेर्महेश्वरस्य संहर्तुमिच्छा सम्पद्यते । सा च किमर्थम् ? [ संसारखिन्नानाम् ] प्राणिनां संसारे शरीरोपादानपरित्यागद्वारेण खिन्नानां निशि रात्राविव विश्रामार्थम् । यथा हि शरीरव्यापारादहनि खिन्नानां तदभावाद रात्रौ विश्रामस्तथेहापीति । Acharya Shri Kailassagarsuri Gyanmandir कदा च सञ्जिहीर्षा ? * ब्रह्मणोऽपवर्गकाले । यदा हि अधिकार समाप्ती ब्रह्मा अपवृज्यते । स च वर्षशतावसाने वर्तमानस्य ब्रह्मणो भवतीति । केन मानेनेत्याह [* ब्राह्मण *] । ब्रह्मण इदं ब्राह्मं तेनेति । तत्पुनः दिव्यं द्वादशसाहस्रं कल्पं विद्धि चतुर्युगम् । एतत् सहस्रपर्यन्तं तदहर्ब्राह्ममुच्यते ॥ इत्येवंविधैदिनैर्मासादयोऽपि वक्तव्या इति मानम् । एवं यथा ब्रह्मणोऽपवर्गकाले महेश्वरस्य सजिहीर्षासमकालं विशिष्टादृष्टानां वृत्तिनिरोधे सति शरीरेन्द्रियाणां विनाशस्तथा * पृथिव्युदकज्वलन पवनानामपि महाभूतानामनेनैव क्रमेण इति । परमाणुषु कर्मोत्पत्तौ विभागेभ्यः सत्संयोगनिवृत्तिद्वारेणोत्तरस्मिन्नुत्तर स्मिन् सति पूर्वस्य पूर्वस्य विनाश इत्युत्पत्त्यपेक्षया । यद् यत् पूर्वमुत्पन्नं तत्तद् उत्तरस्मिन्नुत्तरस्मिन् विद्यमाने सति विनश्यतीति । तथाहि उत्तरस्मिन् सति पूर्वं वायोविनाशस्तदनन्तरमुदकस्येत्यादि । अन्ये तु तद्वाक्यं पाठापेक्षयैव विवक्षितमिति मन्यन्ते । तथाहि यथा शरीरेन्द्रियाणां विनाशस्तथा पृथिव्युदकज्वलनपवनानामपि महाभूतानां विनाशोऽनेनैव क्रमेणेति पाठक्रमेण न क्रमान्तरेणेति । एवञ्च शरीरेन्द्रियमहाभूतानां विनाशे तदा For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy