________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सृष्टिसंहारविधिः
सृष्टिसंहारविधिः
अथेदानीं भूतानां परीक्षाशेषनिवर्तनद्वारेणेश्वरपरीक्षार्थ * चतुर्णाम् * इत्यादिप्रकरणम् । तथा हि भूतानामुद्देशानन्तरं पूर्वप्रकरणेषु लक्षणपरीक्षाभिधानेऽपि सृष्टिसंहारविधि!क्तः । तथेश्वर अर्ध्व नमस्कारव्याजेनोद्दिष्टो लक्षणतश्च, प्रधानत्वाद धर्मपरीक्षामन्तरेण परीक्षितुं न शक्यत इति प्रकरणारम्भः। सृष्टिसंहारविधिश्च 5 तुल्यतयैकस्मिन्नेव प्रकरणेऽभिधीयते । प्रतिप्रकरणाभिवाने तु प्रकरणचतुष्टयमेतावत् स्यादिति सङ्ग्रहरूपताव्याघातः ।
नन्वेवं वैधयावसरे साधर्म्यप्रतिपादनमन्याय्यम् ? न । प्रत्येक भूतेषु सृष्टिसंहारविधेईलक्षण्येऽपि एकत्राभिधानात् साधर्म्यज्ञानम्, न परमार्थतः । न च वैध] - भिधीयमाने यद् यत् साधयं तस्य प्रतिषेधः। यथा पृथिव्यादीनां परमा गुकार्यरूपतया 10 द्वैविध्यम् । कार्यञ्च शरीरादित्रयं परस्परवैलझण्याद् वैधपेऽपि न साधर्म्यरूपतां विजहातीति ।
अथ चतुर्णाम् इत्युक्ते न ज्ञायते केषाम् अतो * महाभूतानाम् ॥ इति । महद्ग्रहणम् अगुव्यवच्छेदार्थम् । नन्वेवं द्वयगुकस्यापि सृष्टिसंहारवतो व्यवच्छेदः स्यात् ? न। महदारम्भकत्वेन तस्यापि महच्छब्दवाच्यत्वात् । तथाहि, द्वयगुकादि- 15 प्रक्रमेणोत्पत्तिविधानात् संहारस्य च परमाण्वन्तस्य' द्वयणकेऽपि सृष्टिसंहारविधौ प्रतिज्ञा कार्यैव । सा चैवं कृता स्यात् । तथापि महाभूतानामित्युक्ते न ज्ञायते कियतामिति, तथापि चतुर्णां भूतानामित्युक्ते न ज्ञायते केषामतः * पृथिव्यादीनाम् * इति लभ्यते । न चाकाशस्य एतद्व्याख्यानावसरसंगत्या अस्त्ववसरः । तदेवं चतुर्णा महाभूतानां सृष्टिसंहारयोविधिः प्रकारस्तावेवाभिधीयेते अनेनेति। विधिः प्रमाणं 20 ताभ्यां वा प्रमाणभूताभ्यां विधिविधाता कर्लोच्यत इत्यावर्त्तमानम् अनेकार्थमेतदेव वाक्यम् ।
तद् * ब्राह्मण मानेन ** इत्यादिना संहार विधेयाख्यानं क्रमातिक्रमेणादौ संसारस्यानादित्वज्ञापनार्थम् । तथाहि, संहारात् पूर्व सृष्टिलभ्यते ततोऽपि संहार इत्यनादित्वम् । स च संहारः कथं भवतीत्याह ॐ महेश्वरेच्छात्माणुसंयोगजकर्मभ्यः 25 शरीरेन्द्रियकारणाणुविभागेभ्यस्तत्संयोगनिवृत्तौ तेषामापरमाण्वन्तो विनाशः * इति। तेषां शरीरेन्द्रियाणामारम्भकेष्वणुषु द्रव्यारम्भकसंयोगनिवृत्तौ द्वयणकविनाशे तदारब्ध.
१३
For Private And Personal Use Only