________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
दशम
उद्देशक:
१५२० (B)
www.kobatirth.org
अथवा द्वावपि तौ यतनास्थितेन सह भण्डते, ततो व्यवहारे जाते क्षेत्रिकः सूत्रोक्तेन विधिना तौ जित्वा तयोर्भक्तं ददाति अनुजानाति, न त्ववग्रहम्, सचित्तमुपधिं वा नानुजानातीति भावः ॥ ३९१७॥
तइयाण सयं सोच्चा, सड्डादीए व पुच्छिउं ।
होइ साहारणं खेत्तं, दिट्टंतो खमएण उ ३ ॥ ३९१८ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
तृतीयानां यतनास्थितानां तवचनतः क्षेत्रिकेण स्वयं श्रुत्वा श्राद्धादीन् वा पृष्ट्वा ज्ञातं स्वरूपम्, यथा- पृष्ट्वा विधिनैते स्थिताः । इयमत्र भावना - क्षेत्रिकेण यतनास्थिता अपि पृष्टाः - 'किं भवन्तोऽत्र स्थिताः ', तेऽवादिषुः - 'वयमत्र पृष्ट्वा स्थिताः परं न केनापि कथितं यथा अन्यैरनुज्ञापितमिदं क्षेत्रमिति' । ततस्तेन क्षेत्रिकेण श्राद्धादयः पृष्टाः, तेऽप्यचुः'यतः युष्माभिरनुज्ञापितं तदस्माकं विस्मृतम्' । यदि वा - 'वयं प्रोषिता अभूमः येऽप्येतैरनुज्ञापितास्तैरप्यस्माकं कथितम्, यथा- एतैर्वयमनुज्ञापिता इति' । एवं तेषां यथावस्थिते स्वरूपे ज्ञाते साधारणमुभयेषां भवति क्षेत्रम्, विधिना पृच्छातो यतनास्थितानामपि शुद्धत्वात् ।
For Private And Personal
गाथा |३९१६-३९२२ क्षेत्रानुज्ञापना
१५२० (B)