________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम
उद्देशकः १५१७ (B)
पुन: कथिते यदि केचिदसद्भूतीभवन्ति तदा ये शेषाः सन्तस्तेऽन्येषां साधूनामागतानां कथयन्ति। ते च बहिस्तिष्ठन्ति प्रतिवृषभे अन्तरपल्ल्यां वा तत्र यां न भोक्ष्यन्ते ॥ ३९०५ ॥
तथा चाहपुण्णो य तेसिं तहि मासकप्पो, अन्नं च दूरे खलु वासजोग्गं। ठायंति तो अंतरपल्लियाए, जं एस काले य न भुंजिहिंती ॥ ३९०६॥ पूर्णः खलु तेषां तत्र [मासकल्प:] वर्षाप्रायोग्यतयाऽसम्भाविते क्षेत्रे । अथवाऽऽषाढशुद्धदशमी अद्यापि दूरे, अन्यच्च वर्षाकालयोग्यं क्षेत्रं दूरे, तत आषाढशुद्धदशमीप्रतीक्षणार्थं यामेष्यति काले न भोक्ष्यते तस्यामन्तरपल्याम् उपलक्षणमेतत् प्रतिवृषभे वा ग्रामे तिष्ठन्ति तत आषाढशुद्धदशम्यां वर्षायोग्ये क्षेत्रे समागच्छन्ति ॥ ३९०६॥
संविग्गबहुलकाले एसा मेरा पुरा य आसी य।
इयरबहुले उ संपइ, पविसंति अणागयं चेव ॥ ३९०७॥ १. याम् अन्तर्पल्ली प्रतिवृषभग्रामं वा न मोक्ष्यंते, एष्यद्वर्षासु प्रेक्षितक्षेत्र बर्हिवर्तित्वात् इत्यर्थः॥
.
गाथा ३९००-३९०७ वर्षाप्रायोग्योप
करणम्
४|१५१७ (B)
For Private And Personal