________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
उद्देशकः १५१७ (A)
दोण्ह जतो एगस्सा, निष्फज्जइ तत्तियं बहिठिया उ। दुगुणऽप्पणो वासुवहिं संथरे पल्लिं च वजंति ॥ ३९०४ ॥
द्वयोरुपधिर्यस्मादेकस्यान्यस्य निष्पद्यते उपधिरात्मनश्च सङ्घाटस्य तदपेक्षया द्विगुणः । तावन्मात्रमुपधिं वर्षाप्रायोग्यं सर्वासु दिक्षु बहिःस्थिता उत्पादयन्ति। यदि पुनः संस्तरन्ति तदा बहिः प्रतिवृषभग्रामान् अन्तरपल्लीं च वर्जयन्ति, न तत्र गच्छन्ति ॥ ३९०४॥
उच्चारमत्तगादी, छारादी चेव वासपायोग्गं। संथार फलग सेजा, तत्थ ठिया चेवऽणुण्णवए ॥ ३९०५॥
गाथा तथा तत्र बहि:स्थिता एव उच्चारमात्रकादि, आदिशब्दात् प्रश्रवण-खेलमात्रकपरिग्रहः।
३९००-३९०७ तथा क्षारादि, आदिशब्दाद् डगलकादिपरिग्रहः, वर्षाप्रायोग्यम् , तथा संस्तारक-फलक- वर्षाप्रायोग्योपशय्या अनुज्ञापयन्ति। अथ कस्मात् सर्वेषां सारूपिकादीनामनुज्ञापना क्रियते? उच्यते-- एकस्य कथिते कदाचित् सोऽसद्भूतः स्यात् ततोऽनुज्ञापितमननुज्ञापितमेव जायते, सर्वेषां ||१५१७ (A)
करणम्
१. दुगुणयमाणवा ला.॥
For Private And Personal