________________
Shri Mahavir Jain Aradhana Kendra
गण
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१५१६ (B)
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
जयणाए सामाणं अणुण्णवित्ता वसंति खेत्तबहिं । वासावासद्वाणं, आसाढे सुद्धदसमीए ॥ ३९०२ ॥
यतनया सारूपिकादिकं सन्तमनुज्ञाप्य क्षेत्रस्य बहिर्वसन्ति । वर्षावासस्थानं पुनराषाढे शुद्धदशम्याम् ॥ ३९०२ ॥
सम्प्रति "जयणाए" इत्यस्य व्याख्यानमाह
सारूवियादि जयणा, अन्नेसिं वा वि साहए ।
बार्ह वा विठिया संता पायोग्गं तत्थ गेण्हए ॥ ३९०३ ॥
सारूपिकादीनामन्येषां वा यत् साधयति कथयति, [ तत्र ] एषा यतना, इयं च प्रागेवोक्ता । अथवा पूर्वगाथाप्रथमार्द्धस्यैवं व्याख्या - सन्तं सारूपिकादिकमनुज्ञाप्य क्षेत्रस्य बहिर्यतनया वसन्ति। तत्र तामेव यतनामाह - बहिर्वाऽपि स्थितास्तत्र वर्षाप्रायोग्यमुपधिं गृह्णन्ति उत्पादयन्ति । तच्चैवम्—सङ्घाटका : सर्वासु दिक्षु प्रत्यासन्नं प्रेष्यन्ते, एकैकश्च सङ्घाट आत्मनः परिपूर्णमुपधिमुत्पादयति, एकस्य च जनस्याधिकस्येति ॥ ३९०३ ॥ एतदेवाह -
१. समणाणं- ला. मु. ॥
For Private And Personal
गाथा
०० ३९००-३९०७ वर्षाप्रायोग्योप
करणम्
१५१६ (B)