________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
उद्देशकः १५१६ (A)
पत्ताण अणुनवणा, सारूविय सिद्धपुत्त सन्नी य। भोईय महयर पहाविय निवेयण दुगाउयाइं ॥ ३९००॥ सग्गाम सन्नि असती, पडिवसभे पल्लिए व गंतूणं। अम्हं रुइयं खेत्तं, नायं खु करेह अन्नेसिं ॥ ३९०१॥
क्षेत्रप्रत्युपेक्षकाणां यत्र वर्षारात्रः कर्त्तव्यस्तत्क्षेत्रं प्राप्तानामनुज्ञापना भवत्यमीषां कर्त्तव्या।। तानेवाह- सारूपिक-सिद्धपुत्रौ प्रागभिहितौ, संज्ञिनः गृहीताणुव्रता दर्शनश्रावकाः, भोजिको ग्रामस्वामी, महत्तरा: ग्रामप्रधानाः पुरुषाः, नापिता: नखशोधकाः, वारिका इत्यर्थः । एतेषा मनुज्ञापना कर्त्तव्या यथा- 'वयमत्र वर्षारात्रं कर्तुकामास्तद् यद्यन्ये केचित् साधव आगच्छेयुस्तदा | तेषामेतद् यूयं कथयतेति'। दुगाउयाइं चेत्यादि। यदि तत्र स्वग्रामे संज्ञी श्रावको न विद्यते तदा द्वे गव्यूते गत्वा प्रतिवृषभे अन्तरपल्लयां वा गत्वा यदि श्रावकोऽस्ति ततस्तस्य निवेदना कर्तव्या यथाऽस्माकमिदं रुचितं क्षेत्रम्, तत एतद् ज्ञातमन्येषां कुरुतेति ॥ ३९०० ॥ ३९०१॥
| १. वारिअ पुं. [ दे] हजाम, नापित-इति पाइअसहमहण्णवे॥
गाथा ३९००-३९०७ वर्षाप्रायोग्योप
करणम्
|१५१६ (A)
For Private And Personal