________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यवहार-1
सूत्रम् दशम
उद्देशकः १५१५ (B)
तच्चैवम्-यत्र संयता जुङ्गिताः श्रमण्यो वृद्धास्तत्र जुङ्गितास्तिष्ठन्ति, वृद्धाः श्रमण्यो निर्गच्छन्ति। एवं गुरु-लाघवं परिभाव्य स्वबुद्धया भावनीयम् ॥ ३८९८॥ सम्प्रति क्षेत्रिकाऽक्षेत्रिकाणां संस्तरणाऽसंस्तरणयोर्मार्गणां करोति
एमेव भत्तसंतुट्ठा, तस्साऽलंभम्मि अप्पभू निंति। जुंगियमादीएसु य वयंति खेत्ती ण ते जेसिं ॥ ३८९९॥
एवमेव अनेनैव प्रकारेण क्षेत्रिकाऽक्षेत्रिकाणामपि संस्तरणेऽसंस्तरणे च भावनीयम्।। तच्चैवं- यदि संस्तरणं तदा क्षेत्रिका अपि तिष्ठन्तु, अक्षेत्रिका अपि। नवरम् अक्षेत्रिका
भक्तसन्तुष्टास्तिष्ठन्तु, सचित्तमुपधिं च न लभन्ते। तस्साऽलंभम्मि त्ति तस्य भक्तस्य अलाभे | असंस्तरणे इत्यर्थः, अप्रभवः अक्षेत्रिका निर्गच्छन्ति। अथाक्षेत्रिका जुङ्गिताः, आदिशब्दादजङ्गमा वा तदा तेषु अक्षेत्रिकेषु जुङ्गितादिषु क्षेत्रिणो व्रजन्ति, जुङ्गितादयस्तिष्ठन्तु।
| येषां च सम्बन्धिनस्ते जुङ्गिता वृद्धा वा न तेषां तत् क्षेत्रमाभवति, उपलक्षणमेतत्, तेनादेशिकानां कु(खु)डुक्का(खग्गूडा)दीनां च नाऽऽभवति क्षेत्रम् ॥ ३८९९ ॥
गाथा . ३८९४-३८९९ | समुदायेन
मार्गणा
|१५१५ (B)
१. अत्र ३८९९ गाथायां प्रथम चरणे अनुष्टुपच्छन्दः॥२. खेत्तीण जं ते सिं-ला.॥
For Private And Personal