________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम
उद्देशकः १५१५ (A)
चिरप्रव्रजितास्ते गच्छन्तु, इतरे तिष्ठन्तु। अथ द्वयोरपि शैक्षाश्चिरप्रव्रजिता वा, केवलमेकस्य जुङ्गितपादाक्षि-नासा-कर-कर्णाः, अपरस्याऽजुङ्गिताः; तत्र जुङ्गितास्तिष्ठन्तु, इतरे गच्छन्तु । अथ द्वयोरपि जुङ्गिताः, तत्र ये पादजुङ्गितास्ते तिष्ठन्तु इतरे गच्छन्तु। सम्प्रति संयतीनां प्रवर्त्तिन्या अभिषेकायाश्च मार्गणा कर्त्तव्या ततस्तामाह- एवमेव अनेनैव प्रकारेण संयतीनां मार्गणा कर्त्तव्या। नवरम् वृद्धासु नानात्वम्, तच्चेदम्- तरुणी-वृद्धानां तरुण्यस्तिष्ठन्ति, वृद्धा गच्छन्ति शेषं तथैव ॥ ३८९७॥
सम्प्रति संयतानां संयतीनां च समुदायेन मार्गणां करोतिसमणाण संयतीण य, समणी अच्छंति णिति समणा उ। संजोगेसु य बहुसो, अप्पाबहुयं असंथरणे ॥ ३८९८ ॥
M३८९४-३८९९ श्रमणानां संयतीनां चैकत्र स्थानेऽवस्थितानामसंस्तरणे श्रमण्यस्तिष्ठन्ति, निर्गच्छन्ति |
समुदायेन
मार्गणा श्रमणाः। संयोगेषु च बहुशः प्रवर्त्तमानेष्वसंस्तरणे अल्पबहु परिभाव्य वक्तव्यम्।
|१५१५ (A) १. संजोगे वि- ला. मु.॥
गाथा
For Private And Personal