________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम उद्देशकः
१५१४ (A)
अथवेति प्रागुक्तापेक्षया प्रकारान्तरे। द्वावपि वर्गों समकं सीमानं प्राप्तौ, तत्र ये पूर्वमनुज्ञापयन्ति तेषां तत्क्षेत्रम्। न ये दर्पण निष्कारणमेवमेव तिष्ठन्ति तेषामिति ॥ ३८९३ ॥ सीमाग्रहणं द्वारगाथायामुद्यानादीनामुपलक्षणम्, तेन तद्विषयामपि मार्गणामाह
उजाण गामदारे, वसहिं पत्ताण मग्गणा एवं। समयमणुन्ने साहारणं तु न लभंति जे पच्छा ॥ ३८९४॥ उद्यानं ग्रामद्वारम् ग्रामग्रहणं नगरादीनामुपलक्षणम्। तथा वसतिं समकं प्राप्तानाम् एवम् उक्तप्रकारेण मार्गणा कर्त्तव्या। तामेव दर्शयति-यदि समकमनुज्ञापयन्ति ततः साधारणम्। ये पुनः पश्चादनुज्ञापयन्ति ते न लभन्ते ॥ ३८९४ ॥
गाथा
|३८९४-३८९९ ते पुण दोन्नी वग्गा, गणि-आयरियाण होज दोण्हं तु।
समुदायेन गणिणं व होज दोण्हं, आयरियाणं व दोण्हं तु ॥ ३८९५॥
मार्गणा तौ पुनी वर्गों द्वयोर्गण्याचार्ययोर्भवेताम्। गणी नाम-अत्र वृषभः । एको वर्गो वृषभस्य,
४१५१४ (A N अपर आचार्यस्य, अथवा द्वयोर्गणिनोर्यदि वा द्वयोराचार्ययोः द्वौ वर्गाविति ॥ ३८९५ ॥
For Private And Personal