________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम उद्देशकः
१५११ (A)
एतैः अनन्तरोदितैः कारणैरनागतमेव भवति क्षेत्रस्याऽनुज्ञापना। सम्प्रति तेषां क्षेत्रं प्रेष्यमाणानां निर्गमे प्रवेशे च विधिं वक्ष्यामि ॥ ३८८१॥
प्रतिज्ञातमेव करोतिकेई पुव्वं पच्छा, व निग्गया पुव्वमइगया खेत्तं। समसीमं तू पत्ताण मग्गणा तत्थिमा होति ॥ ३८८२॥
केचित् क्षेत्रप्रत्युपेक्षणाय पूर्वं निर्गताः, केचित् पश्चान्निर्गताः। तथा प्रवेशे पूर्वम् 'अतिगता:' प्राप्ताः क्षेत्रम्, केचित् पश्चात् । तत्र समकालं सीमानं प्राप्तानाम् इयं वक्ष्यमाणा मार्गणा भवति॥ अनया गाथयाऽऽद्यपादत्रयेण समकं किल चतुर्भङ्गी सूचिता ॥ ३८८२ ॥
ततस्तामेव दर्शयतिपुव्वं विणिग्गतो पुव्वमतिगतो१ पुव्वनिग्गतो पच्छा २।
पच्छा निग्गतो पुव्वं, तु अतिगतो दो वि पच्छा वा ४ ॥ ३८८३॥ ___ जातावेकवचनमतो बहुवचनं द्रष्टव्यम्। पूर्वं [ समकं ] निर्गताः पूर्वमेव समकं प्राप्ताः |
गाथा ३८७९-३८८५ क्षेत्राभवनादिः
|१५११ (A)
For Private And Personal