________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम उद्देशकः
१५०९ (A)
चत्वारो गुरुकाः, आदेशान्तरेणानवस्थाप्यम्। अचित्ते उपधिनिष्पन्नम्। तस्मादविधिरेष न कर्त्तव्यः ॥ ३८७३॥
तथा चाहएसा अविही भणिया, तम्हा एवं न तत्थ गंतव्वं । गंतव्व विहीए ऊ, पडिलेहेऊण तं खेत्तं ॥ ३८७४॥
यस्माद् एषः अनन्तरोदितोऽविधि: गाथायां स्त्रीत्वं प्राकृतत्वात्, तस्मादेवं तत्र न | गन्तव्यम् किन्तु विधिना क्षेत्रं प्रत्युपेक्ष्य गन्तव्यम् ॥ ३८७४ ॥
खेत्तपडिलेहणविही, पढमुद्देसम्मि वन्निया कप्पे। सच्चेव इहोईसे, खेत्तविहाणम्मि नाणत्तं ॥ ३८७५ ॥
क्षेत्रप्रत्युपेक्षणविधिः कल्पे कल्पाध्ययने प्रथमोद्देशे यो वर्णितः स एव इहअस्मिन्नपि व्यवहारस्य दशमे उद्देशके द्रष्टव्यः। नवरमत्र क्षेत्रविधाने क्षेत्रभेदकथने नानात्वम् | इहाधिकं क्षेत्रभेदकथनमित्यर्थः ॥ ३८७५ ॥ तदेव करोति
गाथा ३८७१-३८७८
क्षेत्राऽऽभावनविधि:
|१५०९ (A)
For Private And Personal