________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम
उद्देशकः १५०८ (B)
ते वास्तव्या गताः क्षेत्रं प्रत्युपेक्ष्य समागताः, ततो वा क्षेत्रान्निवृत्ता आचार्याणां पुरत आलोचयन्ति क्षेत्रस्य गुणान् कथयन्ति । तत्र चान्येऽन्यस्माद् गच्छात् प्राघूर्णकाः समागताः, ते च तान् तथा आलोचयतः श्रुत्वा गत्वा आत्मनः गुरोः आचार्यस्य साहयन्ति कथयन्ति, ततो ब्रुवते-'यावत् ते तत्र न तिष्ठन्ति तावद् वयं तिष्ठाम:'। एवं कथने तेषां प्रायश्चित्तं लघुको मासो भवति। न च गतानां तेषां तत् क्षेत्रमाभवति ॥
सामत्थण निजविए, पयभेदे चेव पंथपत्ते य। पणवीसादी गुरुगा, गणिणोग्गाहेण वा जस्स ॥ ३८७३॥
तत् श्रुत्वा यद्याचार्यः सामत्थण त्ति सम्प्रधारयति 'तत् क्षेत्रं गच्छामः' इति तदा तस्य | प्रायश्चित्तं पञ्चविंशति दिनानि। निर्यापितं नाम अवश्यं गन्तव्यमिति निर्णयनं, तत्र लघुको मासः । पदभेदे क्रियमाणे गुरुको मासः । पथि व्रजतां चतुर्लघुकम्। क्षेत्रं प्राप्तानां चतुर्गुरुकम्। एतत् प्रायश्चित्तं गणिनः आचार्यस्य। यस्य वाऽऽग्रहेण ते आचार्या व्रजन्ति तस्याप्येतदेव प्रायश्चित्तम्। न च तत् क्षेत्रं तेषामाभवति। तत्र गत्वा यदि सचित्तमाददति तदा प्रायश्चितं १. गणिणोऽगहणेण- ला.॥
गाथा ३८७१-३८७८
क्षेत्राऽऽभावनविधिः
१५०८ (B)
For Private And Personal