________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम
उद्देशकः १५०७ (A)
आराधनायाः फलमेको भवः, मध्यमाया द्वौ भवौ, जघन्यायास्त्रयो भवाः। अथवा यदि तद्भवे मोक्षाभावस्तदा उत्कृष्टाया आराधनायाः फलं जघन्यं संसरणं द्वौ भवौ, मध्यमायास्त्रयो । भवाः, जघन्याया उत्कृष्टा अष्टौ भवाः ॥ ३८६६ ॥
तदेवं भाष्यकृता सूत्रव्याख्या कृता। सम्प्रति नियुक्तिविस्तरःजेण य ववहरति मुणी, जं पि य ववहरति सो वि ववहारो। ववहारो तहिं ठप्पो, ववहरियव्वं तु वोच्छामि ॥ ३८६७॥
येन मुनिर्व्यवहरति स आगमादिर्व्यवहारः, व्यवहियतेऽनेनेति व्यवहार इति व्युत्पत्तेः। यदपि च व्यवहर्त्तव्यं मुनिर्व्यवहरति सोऽपि व्यवहारः, कर्मणि घञः समानयनात्। तत्र यो व्यवहारः करणपक्षरूपः स स्थाप्यः, पश्चाद् वक्ष्यते इति भावः। व्यवहर्त्तव्यं तु
४३८६४-३८७० वक्ष्यामि ॥ ३८६७॥
आज्ञाऽऽराधनाप्रतिज्ञातमेव निर्वाहयति
दिस्वरूपम् आभवंते य पच्छित्ते, ववहरियव्वं समासतो दुविहं।
|१५०७ (A) दोसु वि पणगं पणगं, आभवणाए अहीगारो ॥ ३८६८ ॥
गाथा
For Private And Personal