________________
Shri Mahavir Jain Aradhana Kendra
******
श्री
व्यवहारसूत्रम्
दशम
उद्देश :
५०६ (B)
****
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यवहारा न यावत् तीर्थं भविष्यन्ति जीतस्तु व्यवहारो यावत् तीर्थं तावद् भवितेति जीतोपादानम् ॥ ३८६४॥
सम्प्रति " आणाए आराहेइ" इत्यस्य व्याख्यानमाह
दव्वे भावे आणा, भावाणा खलु सुयं जिणवराणं । सम्मं ववहरमाणो, तीए आराहतो होति ॥ ३८६५ ॥
आज्ञा द्विविधा- द्रव्ये भावे च । तत्र द्रव्याज्ञा राजादीनामाज्ञा । भावाज्ञा खलु श्रुतं जिनवराणाम् । तत्र सम्यक् पञ्चविधान्यतमेन व्यवहारेण प्रागुक्तनीत्या व्यवहरन् तस्याः आज्ञाया आराधको भवति ॥ ३८६५ ॥
तदेवं व्याख्याता आज्ञा । साम्प्रतमाराधनामाह
आराहणा उ तिविहा, उक्कोसा१ मज्झिमार जहन्ना ३ उ ।
एग दुग तिग जहन्नं, दु तिगऽट्ठभवा उ उक्कोसा ॥ ३८६६ ॥
आराधना त्रिविधा - उत्कृष्टा १ मध्यमा २ जघन्या ३ च। तत्रोत्कृष्टाया
For Private And Personal
गाथा
| ३८६४-३८७० आज्ञाऽऽराधनादिस्वरूपम्
१५०६ (B)