SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५०० (A) बंध१२ वहे१३ उद्दवणे१४, य खिंसणा१५ आसियावणा१६ चेव। उव्वेग१७ कुरुंडिय१८, दीणा१९ अविदिन्नवजणया ॥ ३८४५ ॥ दारगाहाओ॥ एलुकात् परतो यदि गच्छति तदा स्तैन्ये मैथुने वा लोकस्य शङ्का स्यात्, तदनन्तरं च ग्रहणम्। तथा यस्या गृहमभ्यन्तरं प्रविष्टस्तस्या विषये अस्य साधोः किन्नु इच्छा येनाभ्यन्तरं गत?' इति लोकस्य शङ्का स्यात्। तथा दुर्निविष्टा अप्रावृता वा मध्ये अगारी स्यात् तस्या लज्जा स्यात्, दोषाश्चान्ये शङ्कादयः । तथा मध्ये गृहस्वामी हिरण्यादेर्निधानं करोति उत्खननं वा, यदि वा परस्परं विरेचनम्, तत्र 'स्तेनोऽयम्' इति शङ्का स्यात् । तथा अतिभूमिप्रवेशनं तीर्थकृद्भिर्गृहस्थैश्चाऽवितीर्णमननुज्ञातम्, ततो अदत्तादानदोषः। 'तस्मात् कस्मादतिभूमिमेष प्रविष्टः ?' इति गृहस्थः प्राभृतम् अधिकरणं कुर्यात् ॥ ३८४४॥ तथा बन्धं निगडादिभिः । वधं कशादिभिस्ताडनम्। अपद्रावणं जीविताद् व्यपरोपणम्। तथा खिंसना हीलना यथैते वराका अलभमाना अन्तः प्रविशन्ति आसियावणा चेव त्ति | आसियावणा नाम निष्काशयितुमासाद नम्। किमुक्तं भवति? गले गृहीत्वा बहिर्वने निक्षिपति। गाथा ३८४५-३८५१ उम्बरतिक्रमणे दोषाः १५०० (A) १. कुरुंडिए दीणा-पु.प्रे.॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy