________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः
१४९७ (A)
एतदेव सविस्तरं भावयतिदव्वादभिग्गहों सो, दव्वे सुद्धंछमेत्तिया दत्ती। एलुगमेत्तं खेत्ते, गेण्हइ तइयाए कालम्मि।। ३८३४॥
तद् अज्ञातोञ्छं तपो द्रव्याद्यभिग्रहः द्रव्याभिग्रहः१ क्षेत्राभिग्रहः२ कालाभिग्रहो३ | भावाभिग्रहश्च ४। तत्र द्रव्ये द्रव्याभिग्रहो यत् शुद्धमुञ्छं गृह्णाति। शुद्धं नाम अलेपकृत् । तदपि शुद्धम् उञ्छं गृह्णाति उपनीतं नानुपनीतम्,[एतेन]पञ्चानामाद्यानां पिण्डैषणानामग्रहणम्, उपरितन्योश्च द्वयोरेकतरस्या अभिग्रह इत्यावेदितं द्रष्टव्यम्। तथा एतावत्यो दत्तयोऽद्य मया ग्राह्याः, एष द्रव्याभिग्रहः१ । क्षेत्रे क्षेत्रविषयोऽभिग्रहो यद् एलुकमात्रं विष्कम्भ्य गृह्णाति। अत्रापीयं सामाचारी यदि द्वावपि पादावेलुकस्यान्तस्तदा न कल्पते, तत्रेदं कारणम्-यधुच्च एलुकस्तदा दायकस्य पादौ प्रतिष्ठितौ न दृश्येते, किं बीजादौ प्रतिष्ठितौ उत न? इति यदि नीचे एलुके पाश्चात्यपाद: पतितः शुध्यति, यथा न बीजादौ प्रतिष्ठित इति तदा कल्पते, अत्युच्चे तु न कल्पते इति २। काले कालाभिग्रहे तृतीयस्यां पौरुष्यां यद् भिक्षामटति ३॥ ३८३४॥ सम्प्रति द्रव्याभिग्रहे विशेषमभिधित्सुरिगाथामाह१. "हो खलु दव्वे-ला.॥
गाथा ३८३१-३८३६ अज्ञातोञ्छस्वरूपम्
|१४९७ (A)
For Private And Personal