________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
उद्देशकः १७०९ (A)
अनुवर्तयन्ति। ततः परमन्यस्याऽऽचार्यस्य समर्प्यते, सोऽपि षण्मासान् परिवर्तयति । तदनन्तरमन्यस्य, सोऽपि षण्मासान् । एवमेकैकं तस्य षण्मासाः। तत्र त्रयाणामाचार्याणां मध्ये यस्य समीपे शिक्षां गृहीतवान्, यो वा तं दृष्टा याचते 'ममैनं शैक्षं देहि' इति तस्य दानमित्यर्थः ॥ ४६२२॥
अमुमेवार्थं स्पष्टतरमाहतिण्हं आयरियाणं, जो णं गाहेइ सीसो तस्सेव । जइ एत्तिएण गाहितो, ता न परिट्ठावए ताहे ॥ ४६२३॥
त्रयाणामाचार्याणां मध्ये यो ग्राहयति तस्यैव शिष्यः स दीयते। यदि एतावता | आचार्यत्रिकेण परिपाट्या मिलित्वा ग्राहितो भवति ततस्तदा न परिष्ठाप्यते ॥ ४६२३॥ | देंति अजंगमथेराण वा वि, अहवा वि दट्ठणं जो उ । भणती मझं कजं, दिजइ तस्सेव सो ताहे ॥ ४६२४॥
अथवा अजङ्गमस्थविराणां स वैयावृत्त्यकरणाय दीयते । यदि वा यस्तं दृष्ट्वा भणति'मम कार्यमेतेन तस्माद् दीयतामिति,' ततः स तस्यैव दीयते ॥ ४६२४॥
सूत्र १८-१९
४६१८-४६२६ क्षुलकदीक्षा
१७०९ (A)
For Private And Personal